SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ क्रिया-कलापेrrrrrrrrrrrram क्षमां कृत्वा गुरोरने च दीक्षां याचयित्वा तदाज्ञया सौभाग्यवतीस्त्रीविहितस्वस्तिकोपरि श्वेतवस्त्रं प्रच्छाद्य तत्र पूर्वाभिमुखः पर्यकासनो गुरुश्चोत्तराभिमुखः संघाष्टकं संघं च परिपृच्छय लोच........."ॐ नमोऽर्हते भगवते प्रक्षीणाशेषकल्मषाय दिव्यतेजोमूर्तये शान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशकाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतन्द्रोपद्रवविनाशनाय सर्वक्षामडामरविनाशनाय ॐ ह्रां ह्रीं हूं ह्रौं हः असि आ उ सा अमुकस्य सर्वशान्ति कुरु कुरु स्वाहा" अनेन मंत्रेण गन्धोदकादिकं त्रिवारं शिरसि निक्षिपेत् । शान्तिमंत्रण गन्धोदकं त्रिः परिषिच्य वामहस्तेन स्पृशेत् । ततो दध्यक्षतगोमयतद्भस्मदूवाकुरान् मस्तके वर्धापनमंत्रण निक्षिपेत् “ॐ णमो भयवदो वड्डमाणस्से त्यादि वर्धापनमन्त्रः पूर्वं कथितः । लोचादिविधिं महाव्रतवद्विधाय सिद्धभक्ति-योगिभक्ती पठित्वा व्रतं दद्यात् । दसणवयेत्यादि वारत्रयं पठित्वा व्याख्यां विधाय च गुर्वावली पठेत् । ततःसंयमायुपकरणं दद्यात्। __ ॐ णमो अरहंताणं भोः शुल्लक ! (आर्य-ऐलक !) क्षुल्लके वा षट्जीवनिकायरक्षणाय मार्दवादिगुणोपेतमिदं पिच्छोपकरणं गृहाण गृहाण, इत्यादि पूर्ववत्कमण्डलु ज्ञानोपकरणादिकं च मंत्रं पठित्वा दयात्। इति लघुदीक्षाविधानं समाप्तम् । प्रधोपाध्यायपददानविधिः । सुमुहूर्ते दाता गणधरवलयार्चनं द्वादशाङ्गश्रुतार्चनं च कारयेत् । ततः श्रीखंडादिना छटान दत्वा तन्दुलैः स्वस्तिकं कृत्वा तदुपरि पट्टकं संस्थाप्य तत्र पूर्वाभिमुखं तमुपाध्यायपदयोग्यं मुनिमासयेत् । श्रथो. पाध्यायपदस्थापनक्रियायां पूर्वाचार्येत्याधुच्चार्य सिद्धश्रुतभक्ती पठेत् । तत आवाहनादिमंत्रानुचार्य शिरसि लवंगपुष्पाक्षतं क्षिपेत् । तद्यथा-ॐ ह्रौं णमो उवज्झायाणं उपाध्यायपरमेष्ठिन् ! अत्र एहि एहि संवौषट्, For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy