SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५४ www.kobatirth.org क्रिया-कलापे- Acharya Shri Kailassagarsuri Gyanmandir स्फुरितांशुरत्नदीधितिपरिविच्छुरिताभरेन्द्रचापच्छायम् । धियते मृगेंद्रवर्यैः स्फटिक शिलाघटितसिंह विष्टरमतुलम् ||२२|| टीका - स्फुरितेत्यादि । सिंहविष्टरं सिंहासनं । धियते मृगेन्द्रवर्यैः सिंह प्रधानैः । कथंभूतं ? स्फुरितांशु स्फुरिता दीप्ता अंशवः किरणाः यस्य । पुनरपि कथंभूतमित्याह रत्नेत्यादि रत्नानां दीधितयः किरणाः तैः परिविच्छुरितं कबु रीकृतं यदमरेन्द्रचापं इन्द्रधनुः तस्येव छाया शोभा यस्य । स्फटिकशिलाघटितं स्फटिकस्य शिला पाषाणस्तया घटितं निर्मितं । यत एवंविधं तत एवातुलं अनुपमं ।। २२ ।। यस्येह चतुस्त्रिंशत्प्रवरगुणा प्रातिहार्यलक्ष्म्यश्चाष्टौ । तस्मै नमो भगवते त्रिभुवनपरमेश्वराईते गुणमहते ॥ २३ ॥ टाका - यस्येत्यादि । यस्य यर्हतः । इह जगति । चतुस्त्रिंशत्प्रवरगुणाः न केवलमेते किंतु प्रातिहार्यलक्ष्म्यश्चाष्टा प्रातिहार्याण्येव लक्ष्म्यः विभूतयः अभूवन । तस्मै त्रिभुवनपरमेश्वराईते भगवते नमः, त्रिभुवनपरमेश्वरश्चासौश्च तस्मै । गुणमहते गुणैरनंतज्ञानादिभिः महान् इंद्रादीनां पूज्यः ॥ २३ ॥ 'भक्तीनां विवृतिः समस्तविषया मोहांधकारापहा भव्याब्जप्रतिबोधिनी भवसरित्संशोषणी सर्वदा । कर्मोलूकहतप्रवृतिरमला सम्मार्गसंदर्शिनी स्याद्वादाभ्युदया प्रचंडतरणिप्रख्या चिरं नंदतात् ॥ इति पंडितप्रभाचंद्रविरचितायां क्रियाकलापटीकायां भक्तिविवरणः प्रथमः परिच्छेदः समाप्तः । १ - टीकाकर्तुरिदं । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy