________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नंदीश्वरभक्तिः।
दीप्राणि विमलानि यानि महारत्नानि तेषां किरणनिकरस्तेन परीतं पारवृतं । पुनरपि कथंभूतं ? प्रहसितसहस्रकिरणद्युतिमंडलं प्रहसितं उपहसितं सहस्रकिरणस्य आदित्यस्य छतिमंडलं दीप्तिसमूहो येन तत्तथोक्तम् ॥१३॥
इत्यष्टमंगलं च स्वादर्शप्रभृति भक्तिरामपरीतः। उपकल्प्यन्ते त्रिदशरेतेऽपि निरुपमातिविशेषाः ॥ १४ ॥
टीका-इत्यष्टेत्यादि । इति एवमर्थे । यथा धर्मचक्रपर्यंतास्त्रयादशातिशया देवोपनीतास्तथा अष्टमंगललक्षणश्चतुर्दशोऽप्यतिशयस्तदु. पनीत इति । शोभन आदर्शः दर्पणः प्रभृति श्रादिर्यस्य छत्रध्वजकलशचामरसुप्रतीकभृङ्गारताललक्षणमंगलस्य तत्तथोक्तं । न केवलं स्वाभाविका घातिक्षयजाश्चातिशया भगवतो भवन्ति, अपि तु एतेऽपि प्ररूपितप्रकाराः चतुर्दशातिशयास्त्रिदशैः देवरुपकल्प्यन्ते संपाद्यन्ते । किंवशिष्टाः ? निरुपमातिविशेषाः उपमाया निष्क्रान्तोऽतीवविशेषो येषां अथवा विशेष्यन्तेऽन्येभ्योऽतीवेत्यतिविशेषा निरुपमाश्च ते अतिविशेषाश्च । कथंभूतैस्त्रिदशैः ? भक्तिरागपरीतैः भक्तिः श्रद्धाविशेषो रागः प्रीतिविशेषः ताभ्यां परीतैयुक्तैः ॥१४॥ एवं चतुस्त्रिंशदतिशयानभिधाय अष्टमहापातिहार्याण्यभिधातुमाह
वैडूर्यरुचिरविटपप्रवालमृदुपल्लवोपशोभितशाखः । श्रीमानशोकवृक्षो वरमरकतपत्रगहनव इलच्छायः ॥ १५ ॥
टीका-वैडूर्येत्यादि । अशोकवृक्षोऽभूत् । किंविशिष्ट इत्याह वैडूर्येत्यादि--वैडूर्यमणिविशेपैः रुचिरो दीप्रो विटपो विस्तारः, स च प्रवालाश्च अभिनवांकुरा मृदुपल्लवाश्च तैरुपशोभिता: शाखा यस्य स तथोक्तः । श्रीमान् शोभावान् । पुनरपि किंविशिष्ट इत्याह वरेत्यादि वराश्च ते मरकताश्च तैनिर्मितानि पत्राणि तेषां गहनं संघात; तेन बहला घना छाया यस्य स तथोक्तः ।। १५ ।।
For Private And Personal Use Only