________________
Shri Mahavir Jain Aradhana Kendra
२५०
www.kobatirth.org
क्रिया-कलापे-
Acharya Shri Kailassagarsuri Gyanmandir
टीका - फलभारेत्यादि । शालयः कलमप्रभृतयो व्रीहय: षष्ठिकादधः ते आदिर्येषां समस्तसस्यानां । फलभारनम्राणि च तानि शालिनीह्यादिसमस्त सस्यानि च तान्येव धृतो रोमांचो यया सा भूमिः । उत्प्रेक्षते परिहृषितेव च उद्धर्पितेव च । किं कुर्वती ? त्रिभुवननाथस्य अर्हतो वैभवं विभूतिं पश्यंती ॥ १० ॥
शरदुदयरिमलसलिलं सर इव गगनं विराजते विगतमले | जहति च दिशस्तिमिरिकां विगतरजःप्रभृतिजिह्मताभाव सद्यः ११
टीका - शरदित्यादिना आकाशशोभां वर्णयति । शरद: शरत्कालस्योदय आगमनं तेन विमलं पानोयं यस्मिन् तत्तथाविधं सर इव तडागमिव । गगनं विराजते शोभते । विगतमलं विनष्टो मलो अभ्रपटलादियंस्य तत्तथोक्तं तदा दिशश्च कीदृश्योऽभूवन्नित्याह जहति चेत्यादि - जति च त्यजति च । काः ? दिशः । कां ? तिमिरिकां धूम्रतां । कथं ? विगतरजःप्रभृतिजिताभावं रजःप्रभृति येषां तमः शलभादीनां तैः कृतो जिह्मभावो मलिनत्वं स विगतो विनष्टो यत्र तत्तथा भवति । सद्यो झटिति ।। ११ ।।
एतेनेति त्वरितं ज्योतिर्व्यतरदिवौकसाममृतभुजः । कुलिशभृदाज्ञापनया कुर्वन्त्यन्ये समन्ततो व्यादानम् ॥ १२ ॥
टीका - एतेतेत्यादि । एत एत आगच्छत आगच्छत इत्येवं, पूर्वोक्ताकारस्य " माङोरिति" पररूपत्वं । त्वरितं शीघ्रं । ज्योतींषि चन्द्रादयः व्यंतराः किन्नरादयः दिवौकसः कल्पवासिनः तेषां अन्ये भवनवासिनः, अमृतभुजो देवाः कुर्वन्ति व्याह्नानं शब्दं अर्हत्पूजार्थं । समन्ततः सर्वतः । कया ? कुलिशभृदाज्ञापनया इन्द्राशया ।। १२ ॥
स्फुरदरसहस्ररुचिरं विमलमहारत्न किरणनिकरपरीतम् । प्रहसितकिरणसहस्रद्युतिमंडल प्रगामि धर्मसुनक्रम् ।। १३ ।। टीका -- स्फुरदित्यादि । धर्मसुचक्र अग्रगामि अभूत् । किंविशिष्टं तदित्याह - स्फुरन्तश्च ते अराश्च तेषां सहस्राणि तेषु रुचिराणि
For Private And Personal Use Only