SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे टीका-सर्वेभ्यो हिता सार्वा सा चासौ अर्धमागधीया च । अर्ध भगवद्भाषायाः, अर्धं देशभाषात्मकं, अर्धं च सर्वभाषात्मकं । कथमेवं देवोपनीत्वं तदतिशयस्येति घेत मागधदेवसन्निधाने तथा परिणतया भाषया सकलजनानां भाषणसामर्थ्यसंभवात् । अथवा समवसरणभूमौ योजनमात्रमेव भगवद्भाषया व्याप्तं । परतो मगधदेवैस्तद्भाषाया अधं मागधभाषया संस्कृतभाषया च प्रवय॑ते । न केवलं भाषा मैत्री च प्रीतिश्च । कथंभूता ? सर्वजनताविषया-सर्वजनानां समूहः सर्वजनता सा विषयो यस्याः सा तादृशी भाषा मैत्री च भवति । सर्ने हि जनानां समूहाः मागधप्रीतिंकरदेवातिशयवशान्मागधभाषया भाषतेऽन्योन्यमित्रतया च वर्तते इति द्वावतिशयौ । सर्वर्तुफलस्तवकप्रवालकुसुमोपशोभिततरुपरिणामा-सर्ने च तेऋतवश्च शरद्धेमन्तशिशिरवसंतनिदाघप्रावृषः तेषां फलस्तवकाश्च प्रवालाश्च कुसुमानि च तैरुपशोभितस्तरुपरिणामो यस्यां सा तथोक्ता । कासौ ? मही चेत्युत्तरार्द्धन संबंधात् । आदर्शेत्यादि-आदर्शो दर्पणस्तस्य तलं मध्यं तेन प्रतिमा सदृशो, रत्ननिर्मिता वृत्ता रत्नमयी। जायते संपद्यते । मही च मनोज्ञा सकलजननयनमनःप्रीतिकरो। विहरणमन्वेत्यनिलः अनिलो वायुभंगवद्विहरणानुसारमन्वेत्यनुगच्छति । परमानंदश्च परमोऽतिशयपानानंदः संतोषो भवति सर्वजनस्य ॥ ५-६ ॥ मरुतोऽपि सुरभिगंधव्यामिश्रा योजनांतरं भूभागं । व्युपशमितधृलिकंटकणकीटकशर्करोपलं प्रकुर्वन्ति ॥७॥ तदनु स्तनितकुमारा विद्युन्मालाविलासहासविभूषाः । प्रकिरन्ति सुरभिगंधिं गंधोदकवृष्टिमाज्ञया त्रिदशपतेः॥८॥ टीका-मरुतोपीत्यादि । मरुतो वायवः । सुरभिगंधव्यामिश्राः शोभनगंधयुक्ताः । योजनांतरं योजनस्यांतरं मध्यं विहरंतो भूभागं कुर्वति। कथंभूतमित्याह व्युपशमितेत्यादि धूलयश्च, कंटकारच, तृणानि च, For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy