SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar मंदोश्वरभक्तिः । www धर्माश्च । कस्य ? देहस्य । कस्य संबंधिनः ? स्वयंभुवोऽर्हतः । किंवि. शिष्टस्य स्वयंभुवः ? अमितगुणस्य-अनंतगुणस्य । इति स्वाभाविका दशैतेतिशयाः ।। १-२॥ ___ गव्यूतीत्यादिना घातिक्षयजान दशातिशयानाहगव्यूतिशतचतुष्टयसुभिक्षतागगनगमनमप्राणिवधः । भुक्त्युपसर्गाभावश्चतुरास्यत्वं च सर्वविद्येश्वरता ॥३॥ अच्छायत्वमपक्ष्मम्पदश्च समप्रसिद्धनखकेशत्वं । खतिशयगुणा भगवतो घातिक्षयजा भवति तेपि दशैव ॥४॥ टीका-गव्यूतिः क्रोशमेकं गव्यूतीनां शतचतुष्टये सुभिक्षता । गगने गमनं । अप्राणिवधो जीवघाताभावः । भुक्त्युपसर्गाभावः-भुक्तिर्भोजनं कवलाहारः, उपसर्ग उपद्रवः तयोरभावः । चतुरास्यत्वं चतुर्मुखत्वं । सनविद्येश्वरता-सनविद्या द्वादशांगचतुर्दशपूर्वाणि तासां स्वामित्वं, यदि वा सर्नविद्या केवलज्ञानं तस्या ईश्वरता खामिता । अच्छायत्वेत्यादि-अच्छायत्वं प्रतिबिंबरहितता । अपक्ष्मस्पंदश्च चतुःपक्ष्मणां चलनाभावः । समप्रसिद्धनखकेशला-समत्वेन वृद्धिहासहीनतया प्रसिद्धा नखाश्च केशाश्च यस्य देहस्य तस्य भावस्तत्त्व । स्वतिशयगुणाः शोभनः सुष्ठु वा अतिशयो येषां ते च ते गुणाश्च । भगवतोऽतिशयज्ञानवतः । घातिक्षयजा ज्ञानावरणादिकर्मचतुष्टयक्षयो भूताः । तेपि न केवलं स्वाभायिकाः किंतु तेऽपि घातिक्षयना अपि दशैव भवति ॥ ३-४॥ सार्वार्धेत्यादिना देवोपनीताश्चतुर्दशातिशयानाहसावर्धिमागधीया भाषा मैत्री च सर्वजनताविषया। सर्वर्तुफलस्तवकप्रवालकुसुमोपशोभिततपरिणामा ॥५॥ आदर्शतलप्रतिमा रत्नमयी जायते मही च मनोज्ञा। विहरणमन्वेत्यनिलः परमानंदश्च भवति सर्वजनस्य ॥६॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy