SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४६ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir जिनचैत्यालयाः, तानि च जिनपतिनिषद्यकास्थानानि । भवन्तु संपतां । भवघातहेतवः संसार विनाशहेतवः । केषां ? भव्यानां भव्यप्राणिनां ||३६|| सन्ध्यावित्यादिना नंदीश्वरभक्तिस्तुतेः फलमाह - संध्यासु तिसृषु नित्यं पठेद्यदि स्तोत्रमेतदुत्तमयशसाम् । सर्वज्ञानां सार्व लघु लभते श्रुतधरेडिंत पदममितम् ॥ ३७ ॥ टीका-संध्यासु तिसृषु । नित्यं सर्वकालं । पठेद्यदि स्तोत्रमेतत् । केषां ? सर्वज्ञानां । किंविशिष्टानां ? उत्तमयशसां उत्तमं सर्वलोकश्लाघ्यं यशो येष | सार्वं सर्वेभ्यो हितं । लघु शीघ्रं । लभते प्राप्नोति । किं तत् ? पदं निर्वाणस्थानं । कथंभूतं ? श्रुतधरेडितं श्रुतकेवलिभिः स्तुतं । पुनरपि कथंभूतं ? अमितं अनंतम् ॥ ३७ ॥ I आर्या छन्दः । नित्यं निःस्वेदत्वं निर्मलता क्षीरगौर रुधिरत्वं च । स्वाद्याकृति संहनने सौरूप्यं सोरमं च सौलक्ष्म्यम् ॥ १ ॥ अप्रमितवीर्यता च प्रियहितवादित्वमन्यदमितगुणस्य । प्रथिता दश ख्याता स्वतिशयधर्माः स्वयंभुवो देहस्य ॥ २ ॥ टीका - नित्यमित्यादि । नित्यं सर्वकालं । निःस्वेदत्वं प्रस्वेदानिष्क्रांतत्वं । निर्मलता मलान्निःष्क्रान्तत्वं । क्षीरगौररुधिरत्वं च - क्षीरवद्गौरं धवलं रुधिरं यस्य तथोक्तस्तस्य भावस्तत्त्वं । चः समुच्चये । वायाकृतिसंहनने कृतिश्च संहननं च, शोभने च ते श्राद्ये च ते श्राकृतिसंहनने च, श्राकृतिः समचतुरस्र संस्थानं, श्राद्यसंहननं च वर्षभनाराचसंहननं । सौरूप्यं रूपोपेतत्वं । सौरभं सुगंधित्वं । सौलक्ष्म्यं शोभनलक्षणोपेतत्वं । प्रमितेत्यादि -- श्रप्रमितवीर्यता अनंतवीर्यता । प्रियहितवादित्वं प्रियं मनोज्ञं हितं परिणामपथ्यं तद्वादित्वं । अन्यत् 3 } पूर्वोक्तेभ्यो नवभ्यो अपरं इति । प्रथिताः प्रसिद्धाः । दशसंख्याताः दशसंख्यावच्छिन्नाः । के ते ? स्वतिशयधर्माः शोभनोऽतिशयो येषां ते च ते For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy