SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नंदीश्वरभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir २४५ सम्मदकरिवनपरिवृतसम्मेदगिरीन्द्रमस्तके विस्तीर्णे । शेषा ये तीर्थकराः कीर्तिभृतः प्रार्थितार्थसिद्धिमवापन् ॥३३॥ टीका - सम्मदेत्यादि । सम्मदाच ते करिणश्च हस्तिनस्तेषां वनानि । श्रथवा सम्मदकराणि हर्षजनकानि यानि वनानि तैः परिवृतः स चासौ सम्मेद स एव गिरींद्रस्तस्य मस्तकं तस्मिन् । विस्तीर्णे । शेषा वृषभवासुपूज्यनेमिवीरेभ्योऽन्ये ये तीर्थकराः । कथंभूताः ? कीतिभृतः । प्रार्थितार्थसिद्धिं मुक्तिं । श्रवापन् प्राप्तवंतः ॥ ३३ ॥ शेषाणां केवलिनां अशेषमतवेदिगणभृतां साधूनां । गिरितलविवरदरीसरिदुरुवनतरुविट पिजलधिदहन शिखासु ||३४ मोक्षगतिहेतुभूतस्थानानि सुरेन्द्ररुन्द्रभक्तिनुतानि । मंगल भूतान्येतान्यंगीकृतधर्मकर्मणामस्माकम् ॥ ३५ ॥ टीका - शेषाणामित्यादि । शेषाणां तीर्थकरेभ्योऽन्येषां । अशेषमतवेदिगरणभृतां गणधरदेवानां । तथा साधूनां । गिरयश्च | पर्वताः, तलानि उपरितनभागाः, विवराणि च रन्ध्राणि, दर्यश्व कंदराणि, सरितश्च नद्यः, उरूणि च तानि वनानि च, तरवश्च पादपाः, विटपाश्च वृक्षस्कंधप्रदेशाः, जलधिश्च समुद्रः, दहन शिखाश्चाग्निज्वाला तासु अश्रियभूतासु । मोक्षेत्यादि । मोक्षस्य गतिः प्राप्तिः तस्य हेतुभूतानि च तानि स्थानानि च । किंविशिष्टानि १ सुरेन्द्ररुन्द्रभक्तिनुतोनि सुरेन्द्र रुद्रया महत्या भक्त्या नुतानि । पुनरपि कथंभूतानि ? मंगलभूतानि एतानि कथितप्रकाराणि । केषामस्माकं । कथंभूतानां १ अंगीकृतधर्मकर्मणां अंगीकृतं उररीकृतं धर्म एव कर्म कार्यं यैस्तेषां ॥ ३४-३५ ॥ For Private And Personal Use Only जिनपतयस्तत्प्रतिमास्तदालयास्तन्निषद्यकास्थानानि । ताश्च ते च तानि च भवन्तु भवघातहेतवो भव्यानाम् ॥ ३६ ॥ टीका - जिनपतय इत्यादि । जिनपतयः केवलिनः तत्प्रतिमास्तदालयास्तन्निषद्यकास्थानानि । ते जिनपतयः, ताश्च जिनप्रतिमाः, ते च
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy