SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir टीका - श्रीवासुपूज्येत्यादि । परमपदं मोक्षं । प्रापत्प्राप्तवान् । कोसौ ? श्रीवासुपूज्य भगवान् । कथंभूतः ? शिवासु शोभनासु, पूजासु पंचकल्याणरूपासु, पूजितः त्रिदशानां । मतिबुद्धिपूजितार्थयोगे तृतीयार्थे षष्ठो । क तत्प्रापत् ? चंपायां । किंविशिष्टो ? दुरितहरः कर्मध्वंसो | पुनरपि कथंभूतः ? आपदा मंदगतो दुःखानां अवसानं प्राप्तवान् ॥ ३० ॥ मुदितमतिबलमुरारिप्रपूजितो जितकषायरिपुरथ जातः । बृहदुर्जयन्तशिखरे शिखामणित्रिभुवनस्य नेमिर्भगवान् ॥ ३१ ॥ टीका -- मुदितेत्यादि । नेमिर्भगवान्परमपदं प्रापदिति संबन्धः । किंविशिष्ट इत्याह मुदितेत्यादि । मुदिता हृष्टा मतिर्ययोः बलमुरार्योर्बलभद्रनारायणयोस्ताभ्यां प्रकर्षेण परमभक्त्या पूजितः । जिताः कषाया एव रिपवो येन स तथोक्तः । अथ जातः तदनंतरं गतः । क्व ? बृहदुर्जयंतशिखरे । किंविशिष्टः ? शिखामणिः चूडामणिः । कस्य ? त्रिभुवनस्य । नेमिर्भगवान् जातः संपन्नो वा शिखामणिश्चूडामणि: त्रिभुवनस्येति संबंधः ॥ ३१ ॥ पावापुरवरसरसां मध्यगतः सिद्धिवृद्धितपसां महसां । वीरो नीरदनादो भूरिगुणश्चारुशोभामास्पदमगमत् ॥ ३२ ॥ टीका - पावेत्यादि । पुराणां वरं पुरवरं पावानां पुरवरं पावापुरवरं तस्मिन्सरांसि तेषां मध्यं तद्गतः प्राप्तः । सिद्धिरभिप्रेतकार्यनिष्पत्तिः, वृद्धिर्गुणोत्कर्षः, तपोनशनादि । सिद्धवृद्ध इति च क्वचित्पाठः । तत्र सिद्धानि प्रसिद्धानि, वृद्धानि परमप्रकर्षं प्राप्तानि यानि तपांसि इति ग्राह्य ं ? तेषां । तथा महसां तेजसां मध्यगतः । कोसौ ? वीरो वर्धमान । स्वामी । नारदस्य मेघस्य नाद इव नादो यस्यासौ नीरदनादः । भूरयः प्रचुराः गुणाः यस्यासौ भूरिगुणः । चारु शोभनं अनंतं सौख्यं यस्मिस्तत् आस्पदं स्थानं । अगमद् गतवान् ॥ ३२ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy