SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नंदीश्वरभक्तिः Acharya Shri Kailassagarsuri Gyanmandir २४३ । पाणि । जिनभवनानि । किंविशिष्टानीत्याह - यशसामित्यादि । यशर्सा कीर्तीनां । महसां तेजसां । दिशं प्रति प्रतिदिशं सर्वासु दिक्षु | अतिशय शोभां विभजते सेवते इत्यतिशयशोभाविभाजि । भजो विः । पापं विभजति विनाशयंतीति पापविमंजि ।। २६-२७ ॥ इदानीं तीर्थकरान्स्तोतु सप्तत्यधिकेत्याद्याहसप्तत्यधिकशतप्रियधर्मक्षेत्रगततीर्थकर वरवृषभान् । भूतभविष्यत्संप्रतिकालभवान्भवविहानये विनतोऽस्मि ॥ २८ ॥ टीका - सप्तत्यधिकं शतं येषां तानि, प्रियो वल्लभो धर्मो येषां तानि प्रियधर्माणि । तानि च तानि क्षेत्राणि च सप्तत्यधिकशतानि च तानि प्रियधर्मक्षेत्राणि च तानि गताः प्राप्ताः ये तीर्थकरा वरेभ्यः श्रेष्ठेभ्यः, वरेषु वा वृषभाः मुख्याः तीर्थकराश्च ते वरवृषभाश्चेति वा तान् । किंविशिष्टान् ? भूतभविष्यत्संप्रतिकालभवान् -त्रिकालगतान् । विनतोस्मि प्रणतो भवामि । किमर्थं ? भवविहानये संसारविनाशाय ॥ २८ ॥ अस्यामवसर्पिण्यां वृषभजिनः प्रथमतीर्थकर्ती भती । अष्टापद गिरिमस्तकगतस्थितो मुक्तिमाप पापान्मुक्तः ॥ २९ ॥ टीका - अस्यामित्यादि । येषु निर्वाणक्षेत्रेषु ऋषभादयो निर्वाणं गतास्तानि स्तौति । अस्यामिदानीं तनावसर्पिण्यां वृषभजिनः प्रथमतीर्थकर्ता प्रथमश्वास तीर्थकर्ता च प्रथमः तीर्थकर इत्यर्थः । भर्ता अमिषिकृष्यादिजीवनोपायप्रदर्शकत्वेन लोकानां पोषकः । अष्टापदः कैलासः स चासौ गिरिश्व तस्य मस्तकं गतः प्राप्तः स्थितः उर्ध्व कायोत्सर्गोपेतः मुक्ति प्राप्तवान् । पापान्मुक्तोऽपेतः सन् ॥ २६ ॥ For Private And Personal Use Only श्रीवासुपूज्य भगवान् शिवासु पूजासु पूजितस्त्रिदशानां । चंपायां दुरितहरः परमपदं प्रापदापदामन्वगतः ॥ ३० ॥
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy