________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
नभसि व्यवस्थितैः । शशिग्रहक्षैः समानानि तत्कुसुमानि नमसमानानि तैः। कदा? शरदिशरत्काले। भृगारेत्यादि-भृगारश्च अब्दकाश्च दर्पणाः कलशाश्च ते आदयो येषां तारिकार्द्धचंद्रादीनां तानि च तान्युपकरणानि च तैः । कथंभूतैः ? अष्टशतकपरिसंख्यानैः अष्टौ च शतं परिमाणं यस्य तदष्टशतकं तत्परिसंख्यानं येषां तैः । पुनरपि कथंभूतैः? प्रत्येकं चित्रगुणैः एक एक प्रति चित्रगुणैः । पुनरपि कैः प्रधाजंते ? कृतझणझणनिनदविततघंटाजालैः-कृता झणझण इति निनदाः शब्दा यैस्तानि च तानि विततानि घंटानां जालानि पंक्तयस्तैः । कथंभूतानि भवनानि इत्याह गंधकुटीत्यादि-यत्रोत्पन्नविमलकेवलज्ञानो भगवान् समवसरणमध्ये प्रास्ते सा गंधकुटी तां गतं प्राप्तं तच्च तन्मृगपतिविष्टरं च स्वसिंहासनं च सह तेन रुचिराणि दीप्राणि । यदि वा बहूनां प्रतिमानां स्थानं गंध. कुटी । पुनरपि कथंभूतानि ? विविधविभवयुतानि-विविधैर्निचित्रविभवैर्विभूतिभियुतानि ।। २१-२५॥ येषु जिनानां प्रतिमाः पंचशतशरासनोच्छ्रिताः सत्प्रतिमाः । मणिकनकरजतविकृता दिनकरकोटिप्रभाधिकप्रभदेहाः ॥ २६ ॥ तानि सदा वैदेऽहं भानुप्रतिमानि यानि कानि च तानि । यशसा महसां प्रतिदिशमतिशयशोभाविभाजि पापविभंजि ॥ २७ ।।
टीकायेष्वित्यादि । येषु भवनेषु जिनानां जिनेंद्राणां प्रतिमाः। किंप्रमाणाः ? पंचशतशरासनोच्छ्रिता उच्चाः । सत्प्रतिमाः सती शोभना प्रतिमा प्रतिकृतिराकारो यासां ताः । अथवा पंचशतशरासनोच्छ्रिताश्च ताः असत्प्रतिमाश्चाविद्यमानसादृश्याः । मणिकनकरजतविकृताः मणयश्च कनकं च रजतं च तैर्विकृता इव निर्मिता इव । पुनरपि कथंभूताः ? दिनकरकोटिप्रभाधिकप्रभदेहाः दिनकराणां कोट्यस्तासां प्रभा दीप्तिस्तस्या अधिका प्रभा यस्य देहस्य स तथाविधो देहो यासा तास्तथोक्ताः । तानीत्यादि । तानि भवनानि । सदा कालत्रयेऽपि बंदेऽहं । कथंभूतानि ? भानुप्रतिमानि आदित्यतुल्यानि । यानि कानि च तानि अनिर्दिष्टस्वरू.
For Private And Personal Use Only