SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीश्वरभक्तिः । rernmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm वापीसत्पुष्करिणीसुदीर्घिकाबुसंसृतैः समुपेतः । विकसितजलरुहकुसुमैनभस्यमानैः शशिग्रह ः शरदि ॥२३॥ भृगाराब्दकालशाधुपकरणैरष्टशतकपरिसंख्यानैः। प्रत्येकं चित्रगुणैः कृतझणझणनिनदविततघंटाजालैः ॥२४॥ प्रभाजते नित्यं हिरण्मयानीश्वरेशिना भवनानि । गंधकुटीगतमृगपतिविष्टररुचिराणि विविधविश्वयुतानि ।।२५।। टीका-तोरणानि च, सद्वद्यश्च, परीतवनानि च, यागवृक्षाश्च, मानस्तंभाश्च, ध्वजपंक्तिदशकं च, गोपुराणां प्रतोलीनां चतुष्टयं च, त्रितयेनोपलक्षिताःशालाः प्राकारास्त्रितयशालाश्च संगीतंच, मंडपानां वर्या उत्तमा मंडपवर्याश्च तैरेतैः सह प्रभ्राजते शोभते । नित्यं सर्वदा । हिरण्मयानीश्वरेशिनां भवनानि इति संबंधः । अभिषेकेत्यादि-अभिषेकस्य प्रेक्षणं दर्शनं तदस्यामस्तीति अभिषेकप्रेक्षणिकाः सा च क्रीडनं च नाटकस्यालोको दर्शनं तेषां गृहाणि तैः समुपेतैः युक्तैः तोरणादिभिः । पुनरपि कथंभूतैस्तैरित्याह शिल्पीत्यादि । शिल्पिना विज्ञानिना विकल्पि. तानि च तानि कल्पनानि च भेदाश्च तेषां संकल्पः परामर्शः तेन अतोतं कल्पनं रचना येषां तानि तथोक्तानि तैः समुपेतैः तोरणादिभिरकृत्रिमैरित्यर्थः । अकृत्रिमचैत्यालयानां हि तोरणानि अकृत्रिमाण्येव भवंति । वापीत्यादि । किंविशिष्टैः ? अभिषेकप्रेक्षणिकादिगृहैः समुपेतः संयुक्तैः । कैः १ विकसितजलरुहकुसुमैः । कथंभूतैः ? वापीसत्पुष्करिणीसुदीर्घिकाद्यंबुसंश्रितैः वाप्यो वर्तुलाः, सत्पुष्करिण्यश्चतुष्कोणाः, सुदीर्घिका अतीव दीर्घतया प्रसृताः ता आदयो येषां ह्रदादीनां-तेषां अंबूनि तानि संश्रितैः । पुनरपि कथंभूतैः ? सत्कुसुमैः शशिग्रहर्वैः समानैः समानशब्दोत्र लुप्तो द्रष्टव्यः । शशिनश्च ऋक्षाणि च तैः। किंविशिष्टैः ? नभस्यमानैः नभस्याकाशेऽमानैरियंतीति परिमाणरहितैः । यदि वा ३१ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy