SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४० AMA www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir तान्यथ परीत्य तानि च नमसित्वा कृतसुपूजनास्तत्रापि । स्वास्पदमीयुः सर्वे स्वास्पद मूल्यं स्वचेष्टया संगृह्य ||२०|| टीका - निष्ठापितेत्यादि निष्ठापिता समापिता जिनपूजा यैः । चूर्णस्नपनेन चूर्णं सुगंधिद्रव्याणां पिष्टं तेन स्नपनं श्रभिषवस्तेन, दृष्टो विकृतो विकारवान्विशेषो यैः येषु वा तेन तथाभूताः सुरपतय इंद्राः, नंदीश्वरजिनभवनानि प्रदक्षिणीकृत्य त्रिःपरीत्य । पुनः पश्चात् । पंचस्वित्यादि । पंचसु मंदरगिरिषु श्रीभद्रशालादीनि चत्वारि वनानि संति । तत्र मेरोरधः प्रथमकांडे परिवृत्य भद्रशालवनं स्थितं । तत ऊर्ध्वं द्वितीयकांडे मेरु प्रदक्षिणीकृत्य नंदनवनं । ततस्तृतीयकांडे मेरु परिवृत्य सौमनसं । मेरोः चूलिकां परिवेष्ट्य पांडुकवनमिति । एवंविधेषु च तेषु वनेषु प्रत्येकं चतसृप पूर्वादिदिक्षु चत्वार्येव न न्यूनानि नाप्यधिकानि जिनगृहाणि संति । प्रतिवनं च यदा चत्वारि जिनगृहाणि तदैकस्य मेरोः षोडश तानि भवंति । पंचानां मेरूणामशीतिरिति । तानि इत्यादि । तानि जिनगृहाणि । अथ नंदीश्वरजिनभवनप्रदक्षिणीकरणानंतरं । परीत्य प्रदक्षिणीकृत्य । तानि च नमसित्वा संस्तुत्य । कृतसुपूजनाः कृतं सुपूजनं शोभनपूजा यैस्ते तथोक्ताः । तत्रापि न केवलं नंदीश्वरजिनगृहेषु कृतसुपूजनास्ते किंतु तत्रापि तदनंतरं । स्वास्पदं स्वस्थाने ईयुः गतवंतः सर्वे । किं कृत्वा ? संगृह्य । किं तत् ? स्वास्पदमौल्यं शोभनं आस्पदं स्वास्पदं तस्य मौल्यं मूल्यस्य भावो मौल्यं वेतनं पुण्यमित्यर्थः । स्वचेष्टया स्वव्यापारेण ॥ १८-१६-२०॥ इदानीं तेषां विभूतिविशेषं दर्शयन्नाह - सहतोरण सद्वेदीपरीतवनयागवृक्षमानस्तंभध्वजपंक्तिदशकगोपुरचतुष्टयत्रितयशाल मंडपवर्यैः ॥२१॥ अभिषेकप्रेक्षणिकाक्रीडन संगीतनाटकालोकगृहैः । शिल्पिविकल्पित कल्पन संकल्पातीत कल्पनैः समुपेतैः ॥ २२ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy