________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नंदोश्वरभक्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
२३६
टीका - भेदेनेत्यादि । भेदेन विशेषेण, वर्णना माहात्म्याधिक्य - निरूपणा का न काचित् । यत्र सौधर्मः स्नपनकतृतां आपन्नः प्राप्तः । परिचारकभावे सहायतां इताः शेषेंद्रा ईशानादयः । कथंभूताः ? चंद्रचंद्रनिर्मलयशसः - रुद्रचंद्रः पूर्णिमाचंद्रस्तद्वन्निर्मलं यशो येषां ते तथोक्ताः । मंगलेत्यदि -- मंगलपात्राण्यष्टौ, श्लोक :
छत्र ध्वजं कलशचामरसुप्रतीकं भृंगारतोलमति निर्मलदर्पणं च । शंसंति मंगलमिदं निपुणस्वभावा द्रव्यस्वरूपमिद्ध तीर्थकृतोष्ठ चैव ॥
सुप्रतीकः प्रतिग्रहः । तालो व्यजनः । तानि । पुनः पश्चात्तेषां सौधर्मादीनां देव्यः तद्देव्यः । विभ्रति स्म धारयति स्म । कथंभूताः ? शुभ्रगुणान्याः शुभ्राः निर्मला गुणा ज्ञानादयस्तैराढ्याः परिपूर्णः । अप्सरसो नर्तक्यस्तत्राभूवन् । शेषसुरास्तत्र लोकनायां दर्शने व्यग्रधियः व्याकुलबुद्धयः ।। १५-१६ ॥
1
वाचस्पतिवाचामपि गोचरतां संव्यतीत्य यत्क्रममाणम् । विबुधपतिविहितविभवं मानुषमात्रस्य कस्य शक्तिः स्तोतुम् ॥ १७ टीका - वाचस्पतीस्यादि । वाचस्पतिबृहस्पतिः तद्वाचामपि गोचरतां विषयतां । संव्यतीत्य अतिक्रम्य यत्पूजनं क्रममाणं प्रवर्तमानं । कथंभूतं ? विबुधपतिविहितविभवं विबुधपतिभिरिन्द्रैर्विहितः कृतो विभवो विभूतिविशेषो यस्मिन् । विविधविभवमिति च कचित्पाठः । विबुधपतिभ्यः विविधो नानाप्रकारो विभवो यस्मिन् तत्पूजनम् । मानुषमात्रस्य प्राणिमात्रस्य अस्मदादेः । कस्य, न कस्यचित् शक्तिः स्तोतु व्यावर्णयितुम् ॥ १७ ॥
For Private And Personal Use Only
निष्ठापित जिन पूजाश्चूर्णस्नपनेन दृष्टविकृतविशेषाः । सुरपतयो नंदीश्वरजिनभवनानि प्रदक्षिणीकृत्य पुनः ॥ १८ ॥ पंचसु मंदरगिरिषु श्रीभद्रशालनंद नसौमनसं । पांडुकवनमिति तेषु प्रत्येकं जिनगृहाणि चत्वार्येव ॥१९॥