________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
विततं व्याप्त दिङ्महीमंडलं येन स तथोक्तस्तस्मिन् । तत्रेत्यादि-तत्र भवास्तत्रत्याः ते च ते अंजनदधिमुखरतिकराश्च पुरवो महांतश्च ते नगवराख्याश्च पर्वतमुख्याश्च प्रतिदिशं भवंति । तथा ह्य कस्यां दिशि एकोजनगिरिस्तस्य संबधिनश्चत्वारो दधिमुखास्तेषां चतुर्णा संबंधिनी प्रत्येकं द्वौ द्वौ रतिकरौ एवं समुदिताः सर्वे त्रयोदश भवंति । एवं चतसृष्वपि दिनु योजनीयं । येषां अयोदशानामुपरि त्रयोदर्शाजनभुवनानि भवंति । चतुर्दितु संबधिनः पर्वताः समुदिताः द्वयधिकपंचाशदधिका भवति । एषामुपरि जिनगृहाण्यपि एतावन्त्येव भवंति । किंविशिष्टानि ? इन्द्रार्चितानि सौधर्मेन्द्रादिभिः पूजितानि ॥११-१२ ।।
आषाढकार्तिकाख्ये फाल्गुणमासे च शुक्लपक्षेष्टम्याः । आरभ्याष्टदिनेषु च सौधर्मप्रमुखविबुधपतयो भक्त्या ॥१३॥ तेषु महामहमुचितं प्रचुराक्षतगंधपुष्पधूपैर्दिव्यैः । सर्वज्ञप्रतिमानामप्रतिमानां प्रकुर्वते सर्वहितम् ॥ १४ ॥
टीका-आषाढेत्यादि । आषाढश्च कार्तिकश्च तावाख्या यस्य मासस्य तस्मिन् फाल्गुणमासे च । यः शुक्लः पक्षस्तस्मिन् । अष्टम्या
आरभ्य अष्टमीमादिं कृत्वा अष्टदिनेषु च । सौधर्मः प्रमुखः अग्रणीर्येषां ते च ते विबुधपतयश्च ते भक्त्या । तेषु भवनेषु, महामहं--महापूजां, उचितं-योग्यं, प्रकुर्वन्ति । कैरित्याह-प्रचुराक्षतगंधपुष्पधूपैः। किंविशिटै ? दिव्यैः-दिविभवैः । कासां ? सर्वज्ञप्रतिमानां । कथंभूतानां ? अप्रतिमानां-अनुपमानां । किंविशिष्टं ? सर्वहितं-सर्वेभ्यो हितं पुण्योपार्जनहेतुतयोपकारकम् ॥ १३-१४ ॥
भेदेन वर्णना का सौधर्मः स्नपनकतामापन्नः । परिचारकभावमिताः शेषेन्द्रारुन्द्रचन्द्रनिर्मलयशसः ॥ १५ ॥ मंगलपात्राणि पुनस्तद्देव्यो विभ्रति स्म शुभ्रगुणाढ्याः। अप्सरसो नर्तक्यः शेषसुरास्तत्र लोकनाव्यग्रधियः ॥१६॥
For Private And Personal Use Only