SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३६ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir किंविशिष्टे ? श्रहमिंद्रकल्पे अहमिन्द्राणां कल्पः कल्पना यत्र तस्मिन् । अनल्पे महति । तत्र कल्पवासिचैत्यालय संख्या चतुरशीतिलक्षषण्णवतिसहस्रसप्तशतानि । कल्पातीतचैत्यालयसंख्या त्रयोविंशत्यधिकानि त्रीणि शतानि । ग्रंथकारस्तु समुदितामुभयचैत्यालयसंख्या आह-- विंशतिरथ त्रिसहिता सहस्रगुणिता च सप्तनवतिः प्रोक्ता । त्रयोविंशतिः सहस्रगुणिता च सप्तनवतिः यदा भवति तदा सप्तनवतिसहस्राणि त्रयोविंशत्यधिकानि भवति । चतुरधिकाशीतिरतः पंचकशून्येन विनिहतान्यनघानि । चतुरशीतिजिनगृहाणि शून्यपंचकेन विनिहतानि गुणितानि चतुरशीतिलक्षाभिवंति ||५-६ || मनुष्यक्षेत्रे चैत्यालय संख्यामाह-अष्टपंचाशदतश्चतुःशतानीह मानुषे क्षेत्रे । लोकालोकविभाग लोकनालोकसंयुजां जयभाजाम् ॥७॥ टीका -- अष्टपंचाशदतश्चतुःशतानीह मानुषे क्षेत्रे - तिर्यग्लोके चतुःशतान्यष्ट पंचाशदधिकानि भवंति ४५८ । केषां तानि भवनानि इत्याह लोकेत्यादि लोकालोकविभागस्य प्रलोकनं वीक्षणं तस्यालोको येन तद्वीक्षणं भवति केवलदर्शनेन संयुजन्ति संबन्धं कुर्वन्ति ये तीर्थंकरदेवास्तेषां । कथं भूतानां जयभाजां जयं प्रतिपक्ष निराकरणं भजन्ति ये तेषां ॥७॥ त्रिलोकेषु समुदितानि कति भवन्तीत्याह - नवेत्यादि - नवनवचतुःशतानि च सप्त च नवतिः सहस्रगुणिताः षट् च । पंचाशत्पंचवियत्प्रहताः पुनरत्र कोटयोऽष्टौ प्रोक्ताः ॥ ८ ॥ एतावत्येव सतामकृत्रिमाण्यथ जिनेशिनां भवनानि । भुवनत्रये त्रिभुवनसुरसमितिसमर्च्यमानसत्प्रतिमानि ॥ ९ ॥ टीका - नवभिर्गुणितानि नव नवनव एकाशीतिरित्यर्थः चतुःशतानि सप्तनवतिः सहस्रगुणितानि सप्तनवतिसहस्राणि इत्यर्थः । षट्पंचाशदपि च पंचवियत्प्रहृताः पंचशून्यगुणिताः षट्पंचाशल्लक्षाणि For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy