SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीश्वरभक्तिः । काः पुनस्ताः कोट्यः कियन्त्यः प्रोक्ताः -- कथिताः ७७२००००० । केषां ? भुवनानां चैत्यालयानां । किंविशिष्टानां ? भवनानां अश्रयाणां । केषां ? भूरितेजसां ॥३॥ त्रिभुवनेत्यादिना व्यंतराणां चैत्यालयसंख्यां प्ररूपयति-त्रिभुवनभूतविभूनां संख्या तीतान्यसंख्यगुणयुक्तानि । त्रिभुवनजननयनमनः प्रियाणि भवनानि भौमविबुधनुतानि ॥ ४ ॥ टोका - भवनानि जिनगृहाणि । कथंभूतोनि १ भौमविबुधनुतानि - भूमौ भवा भौमाः ते च ते विबुधाश्च व्यंतर देवास्तैर्नुतानि स्तुतानि । पुनरपि कथंभूतानि ? त्रिभुवनजननयमनः प्रियाणि-त्रिभुवनजननयनमनसां वल्लभानि । केषां तानि ? त्रिभुवनभूतविभूनां त्रिभुवने भूतानि प्राणिनस्तेषां विभवो नाथाः जिनाः तेषां । किंविशिष्टानि तानि ? संख्यातीतानि । एतत्परिज्ञानार्थं असंख्यगुणयुक्तानि इत्याह श्रसंख्यातमानावच्छिन्नानीत्यर्थः ॥ ४ ॥ यावन्तीत्यादिना ज्योतिषां चैत्यालयान्स्तौति १३५ यावन्ति सन्ति कान्तज्योतिर्लोकाधिदेवतामिनुतानि । कल्पेऽनेक विकल्पे कल्पातीतेऽहमिन्द्र कल्पेऽनल्पे ॥ ५ ॥ विंशतिरथ त्रिसहिता सहस्रगुणिता च सप्तनवतिः प्रोक्ता । चतुरधिकाशीतिरतः पंचकशून्येन विनिहतान्यनघानि ॥ ६ ॥ For Private And Personal Use Only टीका - यावन्ति यत्परिमाणानि असंख्यातमानावच्छिन्नानि । संति विद्यन्ते । किंविशिष्टानीत्याह कांतेत्यादि - ज्योतिषां लोको ज्योतिर्लोकः तस्य तस्मिन्वा अधिकृता अधिका वा देवता उत्तमदेवा इत्यर्थः । कान्ताः कमनीयाः ताश्च ता ज्योतिर्लोकाधिदेवताश्च ताभिरभितानि । कल्पेत्यादिना कल्पवासिनां कल्पातीतानां चैत्यालयसंख्यां कथयति — कल्पशब्देन सौधर्मादयोऽच्युतान्ता गृह्यते । कथंभूतेऽनेकविकल्पे अनेकभेदके । कल्पातीते नवत्रैवेयकनवानुदिश पंचानुत्तरलक्षणे ।
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy