________________
Shri Mahavir Jain Aradhana Kendra
२३४
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
नंदीश्वरभक्तिः ।
సాధారణ
त्रिदशपतिमुकुटतटगतमणिगणकर निकरसलिलधाराधौतक्रमकमलयुगल जिनपतिरुचिरप्रतिबिंबविलय विरहितनिलयान् ||१|| निलयानहमिह महसां सहसा प्रणिपतनपूर्वमवनौम्यवनी । ari या शुद्धया निसर्गशुद्धाविशुद्धये घनरजसां ||२||
टीका - त्रिदशा देवाः तेषां पतय इंद्राः तेषां मुकुटानि तेषां तदानि प्रभागाः तानि गताः प्राप्ताः ते च ते मरणयश्च तेषां गणाः संघाताः तेषां करा: किरणाः तेषां निकराः समूहाः त एव सलिलधारास्ताभिर्घोतं प्रक्षालितं क्रमावेव कमलयुगलं येषां जिनपतिरुचिरप्रतिबिंबानां सानि तथोक्तानि सत्प्रतिबिंबानि येषु ते च ते विलयेन विनाशेन विरहिताश्च ते निलयाश्च अकृत्रिमाच त्याला इत्यर्थः । कथंभूतान् ? निलयान् श्राश्रयान् । केषां ? महसां तेजसां । तानहं इह जगति । सहसा झटिति । प्रणिपतनपूर्वं यथाभवत्येवमवनौमि स्तौमि । क ? अवनौ भूमौ । कथंभूतायां ? त्रय्यां त्रिलोकस्वरूपायां । कया ? शुद्धया । किंविशिष्टया ? श्रय्या निर्मलमनोवाक्कायव्यापाररूपतया । कथंभूतांस्तान् ? निसर्गशुद्धान् निसर्गेण स्वभावेन शुद्धान्निर्मलान् । किमर्थं ? विशुद्धये । केषां ? घनरजस निबिडपापानां ॥ १-२ ॥
तत्र अधोलोके भवनवासिनां जिनगृहाणि कथयितुं भावनेत्याद्याहभावनसुरभवनेषु द्वासप्ततिशतसहस्र संख्याभ्यधिकाः । कोट्यः सप्त प्रोक्ता भवनानां भूरितेजसां भुवनानाम् ॥ ३ ॥
टीका - भवनेषु भवाः भावनाः ते च ते सुराच देवाः तेषां भवनानि गृहाणि तेषु । कोट्यः सप्त प्रोक्ताः । किंविशिष्टाः ! द्वासप्ततिशतसहस्रसंख्याभ्यधिकाः द्वासप्ततिलक्षाधिकाः द्वासप्ततिश्च तानि शतसहस्राणि च लक्षाणि तेषां संख्या तया अभ्यधिका अतिरिक्ताः ।
For Private And Personal Use Only