________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
क्रिया-कलापे
शत्रुजये नगवरे दमितारिपक्षाः
पंडोः सुताः परमनिर्वृतिमभ्युपेताः । तुंग्यां तु संगरहितो बलभद्रनामा
नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥ ८॥ द्रोणीमति प्रबलकुंडलमेके च
वैभारपर्वततले वरसिद्धकूटे। ऋष्यद्रिके च विपुलाद्रिबलाहके च
विंध्ये च पौदनपुरे वृषदीपके च ॥९॥ सद्याचले च हिमवत्यपि सुप्रतिष्ठे
दंडात्मके गजपथे पृथुसारयष्टौ । ये साधवो हतमलाः सुगति प्रयाताः
स्थानानि तानि जगति प्रथितान्यभूवन् ॥१०॥ टोका-शत्रुजय इत्याचाह । पंडोः सुताः पांडवाः। शत्रुजये नगवरे गिरिवरे। परमनिर्वृतिं परां मुक्तिं । अभ्युपेताः संप्राप्ताः । दमितारिपक्षा निर्जितशत्रुवर्गाः । संगरहितो निग्रंथः । प्रवरकुडलमेढ़के च प्रवरकुंडले प्रवरमेढ़के च । ऋष्यद्रिके श्रवणगिरौ। सुगतिं मुक्तिं । प्रथितानि प्रख्यातानि । अभूवन संजातानि 14-६-१०॥ इक्षोर्विकाररसपृक्तगुणेन लोके
पिष्टोधिकं मधुरतामुपयाति यद्वत् । तद्वच्च पुण्यपुरुषैरुषितानि नित्यं
स्थानानि तानि जगतामिह पावनानि ॥ ११ ॥ टीका-इक्षोरित्यादि । इक्षोर्विकारः गंडकानां विकारः स चासौ रसश्च यदि वा इक्षोरिचुरसस्य विकारो विकारभूतो यो रसो गुडादिः । तस्य पृक्तः पिष्टे संसृष्टः स चासौ गुणश्च माधुर्यलक्षणस्तन लोके
For Private And Personal Use Only