SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निर्वाणभक्ति: । टीका - आय इत्यादि । आद्यो वृषभनाथः चतुर्दशदिनैः परिसंख्याते 'आयुषि स्थिति सति । विनिवृत्तयोगो विनष्टद्रव्यमनोवाक्कायव्यापारः । षष्ठेन दिनद्वयेन परिसंख्याते आयुषि सति । निष्ठितकृतिः निष्ठिता विनष्टा कृतिः द्रव्यमनोवाक्काय क्रिया यस्यासौ, निष्ठितकृतिः जिनवर्द्धमानः । शेषा द्वाविंशतिः यतिवराः तीर्थकरदेवाः । तु पुनः अभवन् संजाताः । वियोगा विगतद्रव्य मनोवाक्कायव्यापाराः । मासेन परिसंख्याते आयुषि सति । किंविशिष्टाः संतः ? विधूतघन कर्मनिबद्धपाशाः घनानि निविडानि च तानि कर्माणि च तैर्निबद्धो निष्पादितो यः पाशो बंधनं स विधूतो विनाशितो यैः ||६|| २९ Acharya Shri Kailassagarsuri Gyanmandir माल्यानि वाक्स्तुतिमयैः कुसुमैः सुधान्यादाय मानसकरैरभितः किरंत: । पर्येम आहतियुता भगवन्निपद्याः संप्रार्थिता वयमिमे परमां गतिं ताः ॥ ७ ॥ टोका - माल्यानीत्यादि । इमे स्तोतारो वयं पर्येमः प्रदक्षिणीकुर्मः । किंविशिष्टाः ? हतियुताः श्रहतिरादरस्तया युता युक्ताः । काः पर्येमः ? भगवन्निषद्याः भगवतां तीर्थकराणां निषद्याः तीर्थस्थानानि । किं कुर्वन्तो aj पर्येमः ? किरन्तः क्षिपन्तः । कथं ? अभितः समन्ततः । कानि ? माल्यानि पुष्पमालाः । किं विशिष्टानि ? सुदृब्धानि शोभनं यथा भवत्येवं प्रथितानि । कः ? कुसुमैः । किंविशिष्टैः ? वाक्स्तुतिमयैः वाक्स्तुत्या निवृतैः । तानीत्थंभूतानि माल्यान्यादाय गृहीत्वा । कैः ? मानसकरैः मन एव मानसं तदेव करा हस्तास्तैः । ताः भगवन्निषद्याः पूजिता: प्रदक्षिणीकृताश्च । किंसत्यः ? अस्माभिः प्रार्थिता याचिताः । कां ? परमा गतिं मुक्तिम् ॥७॥ इदानीं तीर्थकरेभ्योऽन्येषां निर्वाणभूमिं स्तोतुमाह For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy