________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया कलापे
टीका-पावापुरत्येत्यादि । निर्वाणमाप प्राप्तवान्। कोसौ ? श्रीवर्धमानजिनदेव इति एवं प्रतीतः प्रख्यातः भगवान् केवलज्ञानसंपन्नः पूज्यो वा । किंविशिष्टः ? प्रविधूतपाप्मा विनाशितः पाप्मा अष्टप्रकारकर्म येन । क ? बहिरुन्नतभूमिदेशे । कस्य ? पावापुरस्य । कथंभूते ? मध्ये मध्यप्रदेशवर्तिनि । केषां ? सरसां । हि स्फुटं । किंविशिष्टानां पद्मोत्पलाकुलवतां-पद्मोत्पलैराकुलवतां। पद्मोत्पलानां आसमन्तात्कुलं संघातं । तद्विद्यते येषां । 'पद्मोत्पलांकुलवतां' इति च कचित्पाठः । पद्मानि च उत्पलानि च अंकुलाश्च अंकुशाः किशलयानि विद्यन्ते येषाम् ।।४।। शेषास्तु ते जिनवरा जितमोहमल्ला
ज्ञानार्कभूरिकिरणैरवभास्य लोकान् । स्थान पर निरवधारितसौख्यनिष्ट
सम्मेदपर्वततले समवापुरीशाः ॥ २५ ॥ टीका-शेषा इत्यादि । समवापुः प्राप्तवंतः । किं तत् ? स्थान परं मोक्षलक्षणं । निरवधारितसौख्यनिष्ठं निरवधारिता इयत्तावधा. रणानिष्क्रान्ता सौख्यस्य निष्ठा परमप्रकर्षो यत्र । क ? सम्मेदपर्वततले सम्मेदपर्वतोपरितनभागे। के ते ? जिनवराः । शेषाः उक्तभ्यश्चतुर्थी ऽन्ये । तु पुनः । जितमोहमलाः जितो निर्जितो मोहमल्लो यैः । ईशा इंद्रादीनां प्रभवः । किं कृत्वा ? अवभास्य प्रकाश्य । कान् ? लोकान् त्रिजगंति । कैः ? ज्ञानार्कभूरिकिरणैः । ज्ञानं केवलज्ञानं तदेव अर्क आदित्यः तस्य किरणैः प्रचुरप्रभाभिः ॥५॥ आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः
षष्ठेन निष्ठितकृतिर्जिनवर्द्धमानः । शेषा विधृतघनकर्मनिबद्धपाशा
मासेन ते यतिवरास्त्वभवन्वियोगाः ॥ २६ ॥
For Private And Personal Use Only