________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्वाणभक्तिः।
२२३
NAANAA
चंपापुरे च वसुपूज्यसुतः सुधीमान्
सिद्धिं परामुपगतो गतरागवंधः ॥ २२ ॥ टीका-कैलासेत्यादि । कैलासश्चासौ शैलश्च पर्वतस्तस्य शिखरमप्रभागस्तस्मिन्परिनिवृतो निर्वाणं गतः। असौ वृषो वृषभदेवः। महात्मा इदानीं पूज्यः । किं कृत्वा ? उपपद्य प्राप्य । के? शैलेशिभावंशीलानां समूहः शीलं तस्येशिभावं प्रभुत्वं । चंपापुरे च वसुपूज्यसुतो वासुपूज्यो भगवान् । सुधीमान् शोभना धीः केवलक्षानं तद्वान् । सिद्धिं मुक्तिं । परां सकलकर्मविप्रमोक्षलक्षणां । उपगतः प्राप्तः । गतरागबंधः प्रक्षीणकषायः ॥२॥ यत्प्रार्थ्यते शिवमयं विबुधेश्वराद्यैः
पाखडिमिश्च परमार्थगवेषशीलैः । नष्टाष्टकर्मसमये तदरिष्टनेमिः
संप्राप्तवान् क्षितिधरे बृहदूर्जयन्ते ॥ २३ ॥ टीका-यत्प्रार्थ्यते इत्यादि । तच्छिवं मोक्षसौख्यं । अयं अरिष्टनेमिः संप्राप्तवान् । क ? क्षितिधरे । किंविशिष्ट ? बृहदूर्जयन्ते बृहन्महान्स चासौ ऊर्जयंतश्च तस्मिन् । कदा ? नष्टाष्टकर्मसमये नष्टानि अष्टौ कर्माणि यस्मिन्समये अयोगिसमये चरमसमये इत्यर्थः । कथंभूतं शिवं ? यत्प्रार्थ्यते । कैः ? विबुधेश्वराद्यैः इंद्रादिभिः । न केवलमेतैः । पाखंडिभिश्च सकललिंगिभिश्च । कथंभूतैः ? परमार्थगवेषशीलैः। परमार्थस्य मोक्षस्य गवेषो गवेषणं अन्वेषणं तस्मिन्शीलं तात्पर्य अष्टादशसहस्रलक्षणं वा येषां तैः ॥३॥ पावापुरस्य बहिरुनतभूमिदेशे
पनोत्पलाकुलवतां सरसां हि मध्ये । श्रीवर्द्धमानजिनदेव इति प्रतीतो
निर्वाणमाप भगवान्प्रविधूतपाप्मा ॥ २४ ॥
For Private And Personal Use Only