SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir खमाकोशवर्तिनं स्वविमानं । व्यन्तरभवनवासिनौ वनभवने देवारण्यं भूतारख्यं वनं व्यंतरा गताः । भवनवासिनो भवनं गता इति ॥ १८-१६ ॥ इत्येवं भगवति वर्धमानचंद्रे यः स्तोत्रं पठति सुसंध्ययोर्द्वयोर्हि । सोऽनंतं परमसुखं नृदेवलोके भुक्त्वांते शिवपदमक्षयं प्रयाति ||२०|| वसन्ततिलका | यत्रातां गणभृतां श्रुतपारगाणां निर्वाणभूमिरिह भारतवर्षजानाम् | तामद्य शुद्धमनसा क्रियया वचोभिः संस्तोतुमुद्यतमतिः परिणौमि भक्त्या ॥ २१ ॥ टीका -- यत्रार्हतामित्यादि । तां निर्वाणभूमिं परि समंतान्नौमि । केषां निर्वाणभूमिं ? अर्हतां चतुर्विंशतितीर्थकराणां गरणभृतां गणधरदेवानां । किं विशिष्टानां ? श्रुतपारगाणां श्रुतस्य द्वादशांगादेः पारं पर्यंतं गतवतां । यदि वा श्रुतपारगशब्देन गणधर देवेभ्योऽन्ये मुनयो गृह्यन्ते । जिनेश्वरोपदिष्टस्य गणधरदेवैर्प्रथितस्य श्रुतस्य पारं गतवतां । श्रुतपारगाणां चेति चशब्दः समुच्चयार्थो द्रष्टव्यः । किंविशिष्टानां अईदादीनां ? भारतवर्षजानां भरतस्येदं भारतं तच्च तद्वर्षं च क्षेत्रं च तत्र जातानां । क तद्भारतवर्ष ? इद्द जंबूद्वीपे । तत्रापि किं भारतवर्षादन्यत्र हैमवतादौ तेषां निर्वाणभूमिर्भविष्यति इत्यत्राह अत्रेति सर्वाणि वक्यानि सावधा रानि भवति इत्यभिधानात् अवधारणमत्र द्रष्टव्यं अत्रैव भारतवर्षे एव वा निर्वाणभूमिस्तां । अद्य अस्मिन्स्तुतिकाले । किंविशिष्टः सन्नहं परिरणौमि ? संस्तोतुमुद्यतमतिः । कैः ? शुद्धमनसा क्रियया कायव्यापारेण वचोभिः ॥ १ ॥ कैलासशैलशिखरे परिनिर्वृतोसौ शैलेशिभावमुपपद्य वृषो महात्मा । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy