________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
vuvvvv
vvvvvvvvvvvvvvv
www.annow
निर्वाणभक्तिः।
२२१
wwwwwww अनगाराणां मुनीनां । एकादशधा दर्शनव्रतायेकादशप्रकारं । तथा तेनैव प्रकारेण इतरं सागाराणां धर्म ॥१०-१५॥
पद्मवनदीर्घिकाकुलविविधद्रुमखंडमंडित रम्ये ।। पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः ॥ १६ ॥ कार्तिककृष्णस्यान्ते स्वातावृक्षे निहत्य कर्मरजः । अवशेष संप्रापद्व्यजरामरमक्षयं सौख्यम् ॥ १७ ॥
टीका--पद्मवनेत्यादि-पद्म रुपलक्षितं वनं पानीयं यत्र पद्मानां वा वनं संघातो यासु दीर्घिकासु तासां कुलं समूहो दीर्घिका इत्युपलक्षणं तडागादीनां । विविधगु मखंडा नानाप्रकारवृक्षसंघातास्तैमडिते अलंकृते । व्युत्सर्गेस्थितः कायोत्सर्गेण व्यवस्थितः। स मुनिः यस्त्रिंशद्वर्षाणि देशयमानो विहृतवान् । निहत्य निराकृत्य। कर्मरजः कर्ममलं । अवशेष-उद्धृतशेष दग्धरज्जुसमानं । संप्रापत्संप्राप्तवान्। किं तत्? सौख्यं। व्यजरामरं-जरा च मरश्च मरणं न विद्य ते जरामरौ यत्र तदजरामरं विशेषेण अजरामरं व्यजरामरम् । अक्षयं--अविनश्वरम् ॥ १६-१७ ॥
परिनिर्वृतं जिनेन्द्रं ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरुरक्तचंदनकालागुरुसुरभिगोशीः ।। १८ ॥ अग्नीन्द्राज्जिनदेहं मुकुटानलसुरभिधुपवरमाल्यैः । अभ्यर्च्य गणधरानपि गता दिवं खं च वनभवने ॥ १९ ॥
टीका-परिनिवृतं निर्वाणगतं । जिनेन्द्र-वर्धमानस्वामिनं । 'ज्ञात्वा परिनिवृते' इति च कचित्पाठः। परिनिवृते जिनेन्द्रे सति पश्चाग्निर्वाणगतो भगवानित्येवं ज्ञात्वा विबुधा देवाः । हि स्फुटं । अथ तत्परिज्ञानानंतरं । आशु च शीघ्रमेव, तथा शुचेति कचित्पाठः । तथा यथा गर्भाव. तारादिकल्याणे एवमत्रापि आशु च शीघ्रमेव, शुचा शोकेन वा । देवतरु देवदारु । जिनदेहमभ्यर्च्य पूजापूर्वकं संस्कारं कृत्वा । गणधरा. नप्यभ्य» पूजयित्वा गता देवाः कल्पवासिनो दिवं स्वर्ग। ज्योतिष्काः
For Private And Personal Use Only