SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२० www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only wwwwwwww ग्रामपुर खेट कर्वटमटंब घोषा करान्प्रविजहार । उग्रैस्तपो विधानद्वादशवर्षाण्यमरपूज्यः ॥ १० ॥ ऋजुकूलायास्तीरे शालद्रुमसंश्रिते शिलापट्टे । अपराहे पछेनास्थितस्य खलु भिकाग्रामे ॥ ११ ॥ वैशाखतिदशम्यां हस्तोत्तरमध्यमाश्रिते चन्द्रे | क्षपकश्रेण्या रूढस्योत्पन्नं केवलज्ञानम् ।। १२ ।। चातुर्वर्ण्य सुसंधस्तत्राभूद् गौतमप्रभृति ॥ १३ ॥ छत्राशोक घोषं सिहासन दुंदुभी कुसुमवृष्टिम् | बरचामरभामण्डल दिव्यान्यन्यानि चावापत् ॥ १४ ॥ दशविधमनगाराणामेकादशधोत्तरं तथा धर्मं । देशयमानो व्यहरस्त्रिंशद्वर्षाण्यथ जिनेन्द्रः ॥ १५ ॥ टीका -- प्रामादीनां लक्षणं, श्लोक:-- ग्रामो वृत्त्यावृतः स्यान्नगर मुरुचतुर्गोपुरोद्भासिशालं खेटं नद्यद्रिवेष्ट्यंपरिवृतमभितः कर्वटं पर्वतेन । ग्रामैर्युक्तं मटंबं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिंधुवेलाजलधिवलयितं वाहनं चाद्रिरूढ' ॥१॥ पुरं नगरविशेषः । घोषो गोकुलं । आकरो नवसारिकापत्रादिविशिष्टवस्तूत्पत्तिस्थानं । ग्रामादिग्रहणमत्रोपलक्षणार्थं द्रोणाख्यसंवाहनपत्तनानां । तान् प्रविजहार विहृतवान् । शालद्रुमसंश्रिते शालवृक्षसंबंधे । चातुर्वण्र्यः ऋष्यायिका श्रावक श्राविकालक्षणः स चासौ संघश्च । शोभनो रत्नत्रयोपेतः संघः समुदायः सुसंघः । घोषं ध्वनिं । वरचामरभामंडल दिव्यान्यन्यानि च । न केवलं छत्रादीन्यपि त्वन्यानि च गव्यूतिशतचतुष्टयसुभिक्षतागगनगमनादीनि । कथंभूतानीत्याह वरेत्यादि - वरचामरभामंडले दिव्ये देवोपनीते अन्यजनासंभाविनीये ताभ्यां वा युक्तानि च तानि दिव्यानि । दशविधमुत्तमक्षमादिदशप्रकारं
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy