SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्वाणभक्तिः। सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुंडपुरे । देव्या प्रियकारिण्यां सुस्वप्नान्संप्रदर्थ विभुः ॥४॥ टोका-अच्युतस्वर्गसंबंधिनः पुष्पोत्तरविमानात् ईशो वर्द्ध मानस्वामी । यदि वा ईशः पुष्पोत्तरविमानासक्तदेवानां प्रभुः अत्रायातः ।।३-४॥ चैत्रसितपक्षफाल्गुनि शशांकयोगे दिने त्रयोदश्यां । जज्ञे स्वोच्चस्थेषु ग्रहेषु सौम्येषु शुभलग्ने ॥५॥ हस्ताविते शशा के चैत्रज्योत्स्नेः चतुर्दशीदिवसे । पूर्वाह्ने रत्नघटैविबुधेन्द्राश्चक्रुरभिषेकम् ॥ ६ ॥ टीका-फाल्गुनि-उत्तरफाल्गुनि । जज्ञे-जातः । स्वोवस्थेषु स्वकीयस्वकीयराशेः उच्चस्थेषु अनुकूलस्थानस्थेषु । चैत्रज्योत्स्ने-चैत्री ज्योत्स्ना यत्र चक्रुः, कृतवंतः!!५.६।।। भुक्त्वा कुमारकाले त्रिंशद्वर्षाण्यनंतगुणराशिः। अमरोपनीतभोगान्सहसामिनिबोधितोन्येयुः ॥७॥ नानाविधरूपचितां विचित्रक्टोच्छ्रिता मणिविभूषाम् । चंद्रप्रभाख्यशिविकामारुह्य पुराद्विनिष्क्रान्तः ॥ ८॥ मार्गशिरकृष्णदशमीहस्तोत्तरमध्यमाश्रिते सोमे । षष्ठेन त्वपराह्ने भक्तेन जिनः प्रववाज ॥९॥ टीका-अनंतगुणराशिः-अनंतगुणानां राशिः संघातो यत्र । अमरोपनीतभोगान्-अमरैर्देवैरुपनीताः संपादिताः ये भोगा गंधमाल्यादयः उपलक्षणमेतद्वस्त्राभरणाधुपभोगानाम् । सहसा-झटिति । अभिनिबोधितो लौकान्तिकैः प्रबोधितः अन्येधुरन्यस्मिन्दिवसे । नानाविधरूपचितां-बहुप्रकाररूपोपेतां । विचित्रकूटोच्छ्रिता--नानाप्रकारकूटैः कृत्वा उच्चा । मणिविभूषां-मणिभिर्मुक्ताफलादिभिर्विशिष्टा भूषा भूषणं अलकारो यस्याः विनिष्क्रान्तो विनिर्गतः । षष्ठेन द्वयेन भवन उपवासेन । प्रवन्नाज प्रत्रजितवान् ।।७-६॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy