________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
६-निर्वाणभक्तिः Coron
विबुधपतिखगपनरपतिधनदोरगभूतयक्षपतिमहितम् । अतुलसुखविमलनिरुपमशिवमचलमनामयं संप्राप्तम् ॥१॥ कल्याणैः संस्तोष्ये पंचभिरनघं त्रिलोकपरमगुरुम् । भव्यजनतुष्टिजननैर्दुरवापैः सन्मति भक्त्या ॥२॥
टीका-संस्तोष्ये इति द्वितीयार्यागतेन क्रियापदेनाभिसम्बन्धः । के ? सन्मतिं अंतिमतीर्थकरदेवं । कया ? भक्त्या । कैः कृत्वा संस्तोष्ये ? कल्याणैः । किविशिष्टः ? पंचभिर्गर्भावतारजन्माभिषेकनिःक्रमण ज्ञानल. क्षणैः ? पुनरपि किंविशिष्टैः? भव्यजनतुष्टिजननैः-भव्यजनसंतोषकरैः । दुरवापैः-महता कष्टेन प्राप्यैः कथंभूतं सन्मतिं ? अनघं–निःपापं श्रत एव त्रिलोकपरमगुरु । पुनरपि कथंभूतमित्याह विबुधेत्यादि-विबुधा देवाः तेषां पतय इंद्राः, खे गच्छन्ति इति खगाः विद्याधरास्तान्पाति रक्षति इति खगपाः विद्याधरचक्रवर्तिनः,नरपतयश्चक्रवर्तिनः, धनदाश्च उरगाश्च भूतानि च यक्षाश्च तेषां पतयस्तैर्महितं पूजितं । तथा संप्राप्त। किं तदित्याहअतुलं अनुपमं सुखं यत्र तञ्च तद्विमलं च विनष्टकर्ममलं च अतएव निरुपम, तञ्च तच्छिवं च निर्वाणं अचलं हीनाधिकसुखादिस्वरूपरहितं । यदि वा न चलति न नश्यति इत्यचलं अनेन मुक्तः पुनः कदाचित्संसारे परिभ्रमति इति वैशेषिकादिमतं निरस्तं तद्भ्रमणे कारणाभावात् । तत्र हि प्राणिनां परिभ्रमणे कर्मकारणं न च मुक्तस्य सदस्तीति । अनामयं न विद्यते आमयो व्याधिर्यत्र ॥१-२॥
आषाढसुसितषष्ठ्या हस्तोत्तरमध्यमाश्रिते शशिनि । आयातः स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीशः ॥३॥
For Private And Personal Use Only