SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ क्रिया-कलापे अभिनौमि सकलकलुषप्रभवोदयजन्मजरामरणबंधनमुक्तान शिवमचलमनधमक्षयमव्याहतमुक्तिसौख्यमस्त्विति सततम् ।११ टीका-ईदृशेत्यादि । ईदृशगुणैःप्राक्प्रतिपादितप्रकारगुणैः संपन्नान्युक्तान् । यतो युष्मान्भगवतस्ततोऽभिनौमि । कया ?भक्त्या । विशालया महत्या । स्थिराः परीषहादिभ्यो अक्षोभा योगा मनोवाकायाः येषां । विधिना आचार्यभक्त्यादिप्रकारेण । अनारतं-अनवरतं अप्रथान्सकलगुणोपेततया प्रधानभूतान् । कथं अभिनौमि ? इत्याह मुकुलीकृते त्यादि-सुगमं । पुनरपि किंविशिष्टान्युष्मानित्याह सकलेत्यादि-कलुषात्कर्मणः प्रभव उदयो येषां तानि च तानि जन्मजरामरणानि च सकलानि च तानि तानि च तेषां बंधनं प्रबंधः संबंधो वा तेन मुक्तान रहितान् । किमर्थं सततमभिनौमीत्याह शिवमित्यादि--मुक्तिसौख्यमस्त्वित्येवमर्थं । किं विशिष्ट तत् ? शिवं-प्रशस्तं । अचलं--हीनाधिकभावरहितं । अनघं-निर्दोषं । अक्षयं-अविनश्वरं । अव्याहतं--विगतवाधमिति ॥१०--११॥ माकृताचार्यभक्तिः । Coron देसकुलजाइसुद्धा विसुद्धमणवयणकायसंजुत्ता। तुम्हं पायपयोरुहमिह मंगलमत्थु मे णिच्च ॥१॥ देशकुलजातिशुद्धाः विशुद्धमनोवचनकायसंयुक्ताः। युष्माकं पादपयोरुहं इह मगलं अस्तु मे नित्यम् ।।१।। टीका-देशकुलेत्यादि गाथाबन्धः। कुलं पितृपक्षः। जातिर्मातपचः । तुम्हें युष्माकं । अत्थु मे णिच्च-अस्तु मम नित्यं ॥१॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy