SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्यभक्ति। क्वचित्पाठे विलिप्तः सर्वाङ्गमलयुक्तो देहो येषां । विनिर्जिता इन्द्रिय करिणो गैः॥६॥ अतुलानुत्कुटिकासान्विविक्तचित्तानखंडितस्वाध्यायान् । दक्षिणभावसमग्रान्व्यपगतमदरागलोभशठमात्सर्यान् ॥ ७ ॥ टीका-अतुलानित्यादि । अतुलान्-न विद्यते तुलासादृश्यं येषां । उत्कुटिकया आसं आसनं येषां। विविक्त शयनं हेयोपादेविवेकोपेतं चित्तं चारित्रं येषां । अखंडितः स्वाध्यायो यैः । दक्षिणेन प्रशस्तेन भावेन परिणामेन समप्रान् परिपूर्णान् । व्यपगतेत्यादि सुगम ।।७।। भिन्नातरौद्रपक्षान्संभावितधर्मशुक्लनिर्मलहृदयान् । नित्यं पिनद्धकुगतीन्पुण्यान् गण्योदयान्विलीनगारवचर्यान् ।।८॥ टोका-भिन्नेत्यादि।भिन्नौ विनाशितौ आर्तरौद्रयोः पत्तावनौ यैः। सम्यग्भाविते अनुभूते धर्मशुक्लध्याने निर्मलेन हृदयेन यैः । नित्यं सर्वदा । पिनद्धा निराकृता कुगतिथैः । पुण्यान्प्रशस्तान्पवित्रीभूतान्वा । गण्यः श्लाध्यः उदयः ऋद्धयादिविशेषप्राप्तिर्येषां । विलीना नष्टा गारवाणां ऋद्धिरसास्वादलक्षणानां चर्या प्रवृत्तिर्येषां ॥८॥ तरुमूलयोगयुक्तानवकाशातापयोगरागसनाथान् । बहुजनहितकरचर्यानभयाननधान्महानुभावविधानान् ।।९।। टीका-तरुमूलेत्यादि । वर्षाकाले तरुमूलयोगयुक्तान् । शीतकाले प्रीष्मकाले च यथासंख्यं श्रनवकाशश्च अभावकाशश्च,प्रातपयोगश्चातापनयोगस्तत्रानुरागः प्रीतिस्तेन सनाथान् समन्वितान् । बहुजनानां हितकरा सुखकरा चर्या चारित्रं मनोवाकायप्रवृत्तिर्वा येषां । अभयान्सप्तभयवर्जितान् । अनघान् निष्पापा । पुण्यमाहात्म्यान्महतोऽनुभावस्य प्रभावस्य माहात्म्यस्य धर्मशुक्लध्यानपरिणामस्य वा विधानं कारणं येषां ॥६॥ ईदृशगुणसंपन्नान्युष्मान्भक्त्या विशालया स्थिरयोगान् । विधिनानारतमग्यान्मुकुलीकृतहस्तकमलशोभितशिरसा ॥१०॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy