________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
AVRAN
२१९
किया-कलापे
mmmmmmmmmmm मोहच्छिदुग्रतपसः प्रशस्तपरिशुद्धहृदयशोभनव्यवहारान् । प्रासुकनिलयाननघानाशाविध्वंसिचेतसो हतकुपथान् ॥४॥
___टीका-मोहेत्यादि-मोहच्छित् अवध्यादिज्ञानहेतुतया अज्ञाननाशकं उग्रं तपो येषां । प्रशस्तेन धर्मानुबंधिना परिशुद्धन लाभादिवर्जितेन हृदयेन शोभनः स्वपरोपकारको व्यवहारो विकल्पाभिधानरूपो येषां । प्रासुको जंतुसन्मूर्च्छनरहितो निलय आवासस्थानं येषां । न विद्यते अर्घ पापं येषां । इहलोकपरलोकाशाया विध्वंसि विनाशकं चेतो येषां । हतः स्फोटितः कुपथो मिथ्यादर्शनादिलक्षणो यैः॥४॥ धारितविलसन्मुंडान्वर्जितबहुदंडपिंडमंडलनिकरान् । सकलपरीषहजयिनः क्रियाभिरनिशं प्रमादतः परिरहितान् ॥५॥ .. टोका-धारितेत्यादि-धारिताः विलसंतः शोभमानाः मुडाः प्रशस्तमनोवाक्कायपंचेन्द्रियहस्तपादलक्षणाः यैः। बहुदंडः प्रचुरप्रायश्चित्तः पिंड श्राहारो येषु मंडलप्रकरेषु अथवा पिंडाश्च मंडलनिकराश्च बहुदंडाश्च ते वर्जिता यैः । सकलपरीषहजयिनः। काभिः १ क्रियाभिर्विशिष्टानुष्ठानः । कदाचित्सप्रमादास्ते भविष्यंति इत्यतो न तेषां सर्वथा तज्जयः स्यादित्याह अनिशमित्यादि-अनिशं अनवरतं । प्रमादतः प्रमादेन, परिसमन्ताद्रहितानतोऽनिशं तज्जयिनस्ते ॥५॥ अचलान्व्यपेतनिद्रान् स्थानयुतान्कष्टदुष्टलेश्याहीनान् । विधिनानाश्रितवासानलिप्तदेहान्विनिर्जितेंद्रियकरिणः ॥६॥
टीका-अचलानित्यादि-यतस्ते तज्जयिनोऽतोऽचला न चलंति प्रतिज्ञानादनुष्ठानात्कुतश्चिदपि परीषहोपनिपाते । विशेषेण अपेता नष्टा निद्रा येषां ते । स्थानं उछकायोत्सर्गस्तेन युतान्युक्तान् । कष्टा दुःखदायित्वात् दुष्टा दुर्गतिहेतुत्वात् ताश्च ता लेश्याश्च कृष्णाद्यास्तिस्रस्ताभिहींनान् । यदि वा विधिना आगमोक्तविधानेन नानागिरिगह्वराद्यनेकप्रकारा आश्रिता वासा यैः। अलिप्तस्तपोमाहात्म्यान्निर्मलो विलप्त इति च
For Private And Personal Use Only