SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir आचार्यभक्तिः। ५-प्राचार्यभाक्तिः स्कंदछंद सिद्धगुणस्तुतिनिरतानुद्धृतरुषाग्निजालबहुलविशेषान् । गुप्तिभिरभिसंपूर्णान्मुक्तियुतः सत्यवचनलक्षितभावान् ॥१॥ मुनिमाहात्म्यविशेषाजिनशासनसत्प्रदीपभासुरमूर्तीन् । सिद्धि प्रपित्सुमनसो बद्धरजोविपुलमूलघातनकुशलान् ॥२॥ टीका--सिद्धगुणस्तुतीत्यादि-सिद्धानां गुणा अष्टौ सम्यक्त्वादयस्तेषां स्तुतिस्तत्र निरतास्तत्परान्युष्मानभिनौमि इति संबंधः। रुषा क्रोधः सैवाग्निः संतापहेतुत्वात् रुषेत्युपलक्षणं मानमायालोभानों तस्य जालं संघातस्तस्य ये बहुला अनंतानुबंध्यादिबहुप्रकाराः विशेषभेदाः उद्धृता उन्मूलितास्तद्विशेषा गस्तान् ! गुप्तिभिस्तिसृभिरभिसंपूर्णान् परिपूर्णान् । मुक्तियुतः-मुक्तिसंबधवतः । सत्यवचनेन लक्षितो भावोऽवंचकत्वं येषां तान् । मुनीत्यादि-मुनीनां माहात्म्यविशेषो ज्ञानाद्यतिशयविशेषो येषां तोन् । जिनशासने सत्प्रदीपास्तदुद्योतकत्वात् भासुरमूर्तयश्व-सत्प्रदीपवद्भासुरा तपोमाहात्म्याहोप्रा मूर्तिः शरीरं येषां तान् । सिद्धिं-मुक्ति प्रपित्सु जिगमिषु मनो येषां तान् । बद्ध उपार्जितं यद्रजो ज्ञानाचावरणं तदुपार्जने च यद्विपुलं प्रचुरं मूलं तत्प्रदोषनिह्नवादिकारणं तयो(तने विनाशने कुशलान् दक्षान् ॥१-२॥ गुणमणिविरचितवपुषः षड्द्रव्यविनिश्चितस्य धातृन्सततम् । रहितप्रमादचर्यान्दर्शनशुद्धान्गणस्य संतुष्टिकरान् ॥३॥ टीका-गुणत्यादि-गुणा एव मणयस्तैर्विरचितं वपुर्यैस्तान् । षड्व्याणां विनिश्चितं विनिश्चयः तस्य धातृनाधारान् । सततं सर्वदा । रहिता वर्जिता विकथादिपंचदशप्रमादैरनुपलक्षिता चर्या चारित्रं यैः। दर्शनं शुद्ध शंकादिदोषरहितं येषां तान् । गणस्य संघस्य संतुष्टिकरान् ३॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy