________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
योगभक्तिः। wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwr ष्टयः यैः इत्थंभूतैः जलदैर्मेधैः गगनतलं आकाशोपरितनभार्ग। स्थगितपिहितं । त्रिलोक्य । सहसा--झटिति । तपोधनाः आतापनं विधाय पुनरपि तरुवलेषु वृक्षमूलेषु । विषमासु- भयानकासु निशासु रात्रिषु । विशंकं विगतशंकं यथा भवत्येवं । भासते--तिष्ठन्ति ॥५॥
तत्र च तिष्ठन्तस्तेऽनवरतं जलधारापीड्यमानवपुषोऽपि प्रतिज्ञातव्रतान्न चलंतीत्याह
भद्रिका। जलधाराशरताडिता न चलन्ति चरित्रतः सदा नृसिंहाः । संसारदुःखमीरवः परीषहारातिघातिनः प्रवीराः ॥६॥
टीका-जलधारेत्यादि । न चलंन्ति । कस्मात् ? चरित्रतः-कायक्लेशरूपाद्वाह्यतपसः । के ते? नृसिंहाः-नृणां सिंहाः प्रधानाः । किं कदाचित् ? सदा-सर्वकालं । कथंभूता इत्याह जलधारेत्यादि-जलधारा एव शराः पीडाकारित्वात् तै ताडिताः अभिहताः। संसारदुःखभीरवःसंसारे दुःखं तस्माद्भीरवः । परीषदारातिघातिनः-परीषहा एव अगतयः शत्रवः तान् नतीत्येवंशीलाः अत एव प्रवीराः। अथवा प्रकृष्टां परमप्रकर्षप्राप्तां विशिष्ट अन्यजनातिशायिनी ई मोक्षलक्ष्मी रांतीति प्रवीराः ।।६।।
दुवई। अविरतबहलतुहिनकणवारिभिरंघिपपत्रपातनैरनवरतमुक्तसात्कारस्वैः परुषैरथानिलैः शोषितगात्रयष्टयः । इह श्रमणा धृतिकंबलावृताः शिशिरनिशां तुषारविषमां गमयन्ति चतुःपथे स्थिताः ॥७॥
टीका--अविरतेत्यादि । अथ--वर्षाकालानंतरं । इह-लोके । श्रमणाः-मुनयः । शिशिरनिशां-शीतकालरात्रिं । गमयन्ति-नयंति । किंविशिष्टा ? तुषारविषर्मा-तुषारेण हिमेन विषा असह्यां। कथंभूताः?
२७
For Private And Personal Use Only