________________
Shri Mahavir Jain Aradhana Kendra
२०८
www.kobatirth.org
क्रिया-कलापे
"
Acharya Shri Kailassagarsuri Gyanmandir
मलपटलावलिप्ततनत्रः - मलपटलेनावलिप्तास्तनवो येषां ते । शिवलीकृतकर्मबंधनाः- शिथलीकृतानि स्थित्यनुभवबंधस्वरूपात्प्रच्यावितानि कर्मबंधनानि यैः । व्यपगतेत्यादि - मदनदर्पश्च रतिश्चेष्टे प्रीतिः, दोषाश्च मोहादयः कषायाश्च क्रोधादयो विशेषेण अपगता नष्टा एते एषां ते च ते विरक्तमत्सराच विरक्तः पराङ्मुखो जातः मत्सरो मात्सर्यं येषां ते ॥३॥ तिरौद्रतापश्च प्रोष्मे किंविशिष्टैः तैः सह्यते इत्याह-
wwwwww
भद्रिका । सज्ज्ञानामृतपायिभिः क्षान्तिपयः सिच्यमान पुण्यकायैः । धृत संतोषच्छत्र के स्तापस्तीत्रोऽपि सह्यते मुनी- द्रैः ||४||
टीका -- सज्ज्ञानेत्यादि - - सज्ज्ञानं मत्यादि पंचविधं एतदेवसृतं आप्यायकत्वात् तत्पिबन्तोत्येवं शीलास्तैः । क्षांतिरेव पयः तेन सिच्यमानः पुण्यः प्रशस्तः कायः शरीरं, पुण्यानां वा कायः संघातः सिच्यमानो वृद्धिं नीयमानो यैः । धृतं संतोष एव छत्रं यैः । इत्थंभूतैमुनीन्द्रैस्तीत्रोप्यसह्योsपि तापः सह्यते ||४||
प्रीष्मानंतरं प्रावृषः प्रवेशे मुनयः किं कुर्वन्तीत्याह-दुबई | शिखिगलकज्जल। लिमलिनैर्विबुधाधिपचापचित्रितै— रवैर्विसृष्टचण्डाश निशीतलवायुवृष्टिभिः । गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः पुनरपि तरुतलेषु विषमासु निशासु विशंकमासते ||५||
For Private And Personal Use Only
टीका - शिखीत्यादि - शिखिनो मयूरस्य गलश्च कज्जलं चालयश्च भ्रमरास्तद्वन्मलिनैः कृष्णैः । विबुधाधिपस्येंद्रस्य चापेन इन्द्रधनुषा चित्रितैः । भीमरवैः -- भयानकशब्दः । विसृष्टचण्डाशनिशीतलवायुवृष्टिभिः -- विशेषेण सृष्टा विसर्जिताञ्चण्डाः प्रचण्डाः अशनिशीतल वायुवृ