SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगिभाक्तः । २०७ wwwmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm चेतो येषां । किमर्थं इत्थंभूतास्ते वनांतमाश्रिताः ? प्रशमाय-प्रकृष्टश्चासौ शमश्च रागद्वषोपरमः संसारोच्छित्तिर्वा तस्मै ॥१॥ ते च मुनयः तदाश्रिताः सन्तः किं कुर्वन्तीत्याह भद्रिका व्रतसमितिगुप्तिसंयुताः शिवसुखमाधाय मनसि वीतमोहाः। ध्यानाध्ययनवशंगता विशुद्धये कर्मणां तपचरन्ति ॥२॥ टीका-व्रतेत्यादि । चरन्त्यनुतिष्ठति । किं तत् ? तपो बाह्य कायक्लेशलक्षणं । कथंभूता इत्याह व्रतेत्यादि-व्रतसमितिगुप्तिषु संयताः यत्नपराः । किं कृत्वा ? श्राधाय-संप्रधार्य । क ? मनसि । किं ? शिवसुखं-मोक्षसुखं शमसुखमिति च क्वचित्पाठः। तत्र शमे सकलरागायुपशमे वीतरागतायां यत्सुखं आत्मोत्थं अतीन्द्रियमिति प्राय। वीतमोहाः-विशेषेण इतो गतो मोहो येषां । ध्यानाध्ययनवशंगताः-ध्यानाध्ययनयोर्वशमाधीनां गताः । किमर्थं तत्ते चरंति ? विशुद्धये । केषां ? कर्मणाम् ॥२॥ दुई। दिनकरकिरणनिकरसंतप्तशिलानिचयेषु निःस्पृहा मलपटलावलिप्सतनवः शिथिलीकृतकर्मबंधनाः । व्यपगतमदनदपेरतिदोषकपायविरक्तमत्सरा गिरिशिखरेषु चंडकिरणाभिमुखस्थितयो दिगंबराः ॥३॥ टीका-दिनकरेत्यादि । चंडकिरण आदित्यस्तस्य अभिमुखा सन्मुखा स्थितिः स्थानं येषां ते इत्थंभूता दिगंबरास्तपश्चरंति । कत्याह दिनकरेत्त्यादि-दिनकरस्य किरणानां निकरण रश्मिसमूहेन संतप्ताश्च ते शिलानिचयाश्च पाषाणसंघातास्तेषु । क ते शिलानिचयाः ? गिरिशिखरेषु गिरीणां शिखराणि अग्रभागास्तेषु । कथंभूताः ? निःस्पृहाः-निरीहाः । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy