________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
टीका--एवमित्यादिना स्तोता स्तुतेः फलं याचते । एवं पूर्वोक्त. क्रमेण । मयाऽभिष्टुता अभिनंदिताः। न विद्यते अगारं गृहं येषां ते अनगाराः यतयः। रायदोसपरिसुद्धा-रागद्वषैः परिशुद्धा रहिताः। संघस्ससंघस्य तावद्वरं श्रेष्ठं समाहिं-धर्म्यशुक्लध्यानपरतां । मज्झवि-मद्यमपि दुक्खक्खयं-संसारदुःखोच्छित्तिं ददतु-प्रयच्छंतु ॥ २३ ॥
संस्कृत-योगिभक्तिः। -
-- (२)
दुवई छन्दः। जातिजरोरुरोगमरणातुरशोकसहस्रदीपिता
दुःसहनरकपतनसन्त्रस्तधियः प्रतिबुद्धचेतसः । जीवितमबुबिंदुचपलं तडिदभ्रसमा विभूतयः
सकलमिदं विचिन्त्य मुनयः प्रशमाय बनान्तमाश्रिताः ॥१॥
टीका-जातिजरोरुरोगेत्यादि । वनांतं वनमध्यं आश्रिता गताः । के ते ? मुनयः । किं कृत्वा ? विचिन्त्य । किं तत् ? जीवितं । किविशिष्ट ? अंबुबिंदुवञ्चपलं चंचलं । तडिद्भसमा विभूतयः-तडिता विद्युता अभ्रेण च मेघपटलेन च समा क्षणदृष्टनष्टरूपी विभूतयो लक्ष्म्यः । इति इदं सकलं विचिन्त्य । किंविशिष्टा मुनय इत्याह जातीत्यादि-जातिश्च जन्म च जरा च वृद्धत्वं उरुरोगाश्च महारोगाः भगंदरजलोदरादयः मरणं च तैरातुराः पीडितास्ते च ते शोकसहस्रैः पुत्रकलत्रादिवियोगजातसंता. पविशेषैः दीपिताश्च प्रज्वलिताः । पुनरपि कथंभूता इत्याह दुःसहेत्यादिदुःसहमसह्य यन्नरकपतनं नरकगमनं तस्मात्संत्रस्तधियो भीतमतयः । पुनरपि किंविशिष्टाः ? प्रतिबुद्धचेतसः-प्रतिबुद्ध हेयोपादेयविवेकचतुरं
For Private And Personal Use Only