________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगिभक्तिः।
२०५
टोका-आयासेत्यादि-आकाशं च तंतुश्च जलं च श्रेणिश्च पर्वतकटिनी तेषु चारणा गन्ताः तान्वंदे । जंघाचारणे-जंघाभ्यां क्षणार्द्ध योजनशतादिकमक्लेशेन गंतारश्च, जंघायां वा अग्रेतियकृतायामपि चारणा अप्रतिहतगमनास्तान्वटे । विउवणइड्डिपहाणे-विकुणऋद्धः प्रधानस्वामिनः । विज्जाहरपएणसवणे य-विद्याधराः सन्तो ये तपोऽनुगृह्णन्ति येषां प्रज्ञातिशयस्तदैव संपद्यते इति विद्याधराश्च ते प्रज्ञाश्रमणाश्च, यदि वा विद्याधरानिव अप्रतिहतगतित्वेनैतान्प्रज्ञयोपलक्षितान् श्रमणयतीन् ॥ २०॥
गइचउरंगुलगमणे तहेव फलफुल्लचारणे वंदे । अणुवमतवमहंते देवासुरवंदिदे वंदे ॥२१॥
टीका-गइचउरंगुलगमणेत्यादि-गम्यते यत्रासौ गतिर्मार्गो गतौ चतुरंगुलैभूमिमस्पृशतां गमनं येषां तान्वंदे । तहेव-तथैव फलानि च पुष्पाणि च तेषु चारणान् तद्विघातमकुर्वतः तदुपरि गन्तन् । अणुवमतवमहन्ते-अनुपमं तपो येषां ते च ते महांतश्च उत्तमास्तान्ठांदे । देवासुरवादिदे-देवैरसुरैश्च नंदितान्वंदे ।। २१ ।।
जियभयजियउवसग्गे जियइंदियपरीसहे जियकसाए । जियरायदोसमोहे जियसुहदुक्खे णमंसाधि ॥ २२ ॥
टीका--जियभयेत्यादि--जितं भयं यैर्जिता उपसर्गा यैस्तान्यदे। जियइदियपरीसहे--जिता इंद्रियपरीषहा यैस्तोन्दे । जियकसाएजिताः कषायाः क्रोधादयो यैस्तान् । जियरागदोसमोहे-रागः शुभे प्रीतिः द्वषोऽशुभेऽप्रीतिः, मोहो मूढता जितास्ते यैस्तान् । जियसुहदुक्खे-जितं सुखं दुःखं च यैस्तान् । णमंसामि-नमस्करोमि ॥ २२ ॥
एवं मए भित्थुया अणयारा रायदोसपरिसुद्धा। संघस्स वरसमाहि मज्झवि दुक्खक्खयं दितु ॥ २३ ॥
For Private And Personal Use Only