________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
क्रिया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
S
टीका -- श्रमयेत्यादि अमृतं च मधु च क्षीरं च सर्पिश्च तेषां aaji स्वादो वा सोऽस्ति येषां तथोक्ताः । कदशनमपि हि येषां पाणिपतितं तपोमाहात्म्यादमृतादि स्रवति, स्वदते वा तान्वंदे | अक्खीणमहारणसे- अक्षोणं महानसं रसवती येषां यस्माद्भांडकादुद्धृत्य भोजनं तेभ्यो दत्तं तच्चक्रवर्तिकटकेऽपि भोजिते न क्षोयते । मणबलिवचबलिकायब लिखो य - मनोबलं वचोबलं कायबलं च विद्यते येषां तान्वंदामि- नमस्करोमि । तिविहे --मनोवाक्कायैः ॥ १७ ॥
वरकुहबीबुद्धी पदाणुमारीय भिण्णसोदा रे । उग्गहईहसमत्थे मुत्तत्थविसारदे वंदे ॥ १८ ॥
टीका - - वरकुट्ट त्यादि - कोष्ठं च बीजं च वरे श्रेष्ठे च ते कोष्ठबीजे च तद्वद् बुद्धिर्येषां तान् । पदानुसारो विद्यते येषां तान् । संभिन्न शृवन्ति इति संभिन्न श्रोतारः तान् । उग्गहईहसमत्थे -- अवग्रहश्व ईहा च ताभ्यां समर्थान् पदार्थस्वरूप निश्चयकुशलान् । सुत्तस्थविसारदे - सूत्रार्थ श्रागमार्थे विशारदान् धारणायुक्तानित्यर्थः तान् अवग्रहेहावायधारणायुक्तान्वंदे ॥ १८ ॥
आभिणियो हिय सुदओहिणाणिमणणा णिसव्वणाणीय । वंदे जगप्पदीवे पच्चक्खपरोक्खणाणी य ॥ १९ ॥
}
टीका- आभिणिबोहियेत्यादि - आभिनिबोधिकं च मतिज्ञानं श्रुतं चावधि तानि च तानि ज्ञानानि च तानि विद्यते येषां मनोज्ञानं मन:पर्ययज्ञानं तद्विद्यते येषां सर्वस्य जीवादिपदार्थस्य ज्ञानं सर्वज्ञानं केवलज्ञानं तद्विद्यते येषां तान्ांदे | जगप्पदीवे- जगतः प्रदीपकान् प्रकाशकान् । पञ्चक्खपरोक्खणाणी य - प्रत्यक्षं च अवधिमन:पर्ययकेबलाख्यं परोक्षं च मतिश्रुते ते च ज्ञाने च विद्येते येषां तान् ॥ १६ ॥ आयासतंतु जलसेढिचारणे जंधचारणे वंदे | विउवणइढिपहाणे विज्जाहरपण्णसवणे य ॥ २० ॥
For Private And Personal Use Only