SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org योगिभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir सिवगइपहणायगे वंदे - शिवगतेर्मोक्षप्राप्तेः पंथाः मार्गः तस्य नायकान् वंदे || १४ || उग्गतवे दित्ततवे तत्ततवे महातवे य घोरतवे । वंदामि तवमहंते तवसंजमइड्डिसंजुते ॥ १५ ॥ B टीका--उग्गतवेत्यादि — पंचम्यामष्टम्यां चतुर्द्दश्यां च प्रतिज्ञातीपवासाः अलाभद्वये त्रये वा तथैव निर्वाहयन्ति एवंप्रकाराः उग्रतपसः । दित्ततवे - देहदीप्त्या प्रहृतांधकारा दीप्ततपसः । तत्ततवे—तप्तायः पिंडपतितजलकरणवद्महीताहार शोषणान्नीहार र हितास्तप्ततपसः । महातवे -- पक्षमासोपवासाद्यनुष्ठानपरा महातपसः । घोरतवे -- सिंहशार्दूलायाकुलेषु गिरिकंदरादिषु भयानकश्मशानेषु च प्रचुरतरशीतवातादियुक्तषु गत्वा दुर्द्धरोपसर्गसहनपराः घोरतपसः । तान्वंदामि - वंदे । कथंभूतानेतान् ? तवमहंते तपसा महान्तः इन्द्रादीनां पूज्यास्तान् । पुनः कथंभूतान् ? तवसंजमइड्डि संपत्ते -- तपो द्वादशविधं संयमो द्विविधः इद्रियप्राणिसंमभेदात् । ऋद्धयः सप्तविधाः । “बुद्धितश्रोविय लद्धी विडवणलद्धी तहेव श्रसहिया । रसबलक वीणावि य ऋद्धी श्री सत्त परणता ॥ १ ॥ इति । तपांसि च संयमौ च ऋद्धयश्च ताः संप्राप्ताः यैस्तान् ॥ १५ ॥ आमोसहिए खेलोसहिए जल्लोसहिए तवसिद्धे । विप्पोसहीए सब्बो सहीए वंदामि तिविहेण ॥ १६ ॥ 1 टीका-- आमोसहियेत्यादि - आमो अपक्वाहारः स एवौषधिहिरो येषां । खेलो निष्ठीवनं औषधिर्येषां । जल्लौषधिर्येषां । तपसा सिद्धाः प्रसिद्धाः कृतकृत्या वा तपः सिद्धाः तान् । विप्पोसहीए - विप्रुष औषधिर्येषां । सव्वोसहीए - मूत्रपुरीषनख केशादिक' सर्वं औषधिर्येषां तान्वंदामि - गंदे । तिविहेण -- मनोवाक्कायैः ॥ १६ ॥ -~ अमयमहुखीरसप्पिसवीए अक्खिणमहाणसे वंदे | मणबलिवचबलि कायवलिणो य वंदामि तिविहेण ॥ १७ ॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy