SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० क्रिया-कलापे नुमतपरिहरणान्नवविधं ब्रह्मचर्यं भवति । वरण्यसम्भावजाएगे --नैगमादयः सप्त द्रव्यार्थिक पर्यायार्थिकौ च द्वौ इति नवनयास्तेषां स्वभावस्य सद्भावस्य सत्तायां वा ज्ञापकान् अत एव वंद्या: वंदनीयास्तान्वंदे | दसविहधम्मट्ठाई - दशविधो धर्म उत्तमक्षमादिविकल्पात् तत्र विष्ठति इति दशविधधर्मस्थायिनः तान् । दससंजम संजदे – एकेन्द्रियादीनां पंचानां रक्षणं प्राणिसंयमः पंचविधः, स्पर्शनादीनां इन्द्रियाणां प्रसरपरिहार इन्द्रियसंयमः पंचविधः एते दशसंयमास्तेषु संयतान् सम्यग्यत्न • परान् वंदे ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir एयारसंग सुदसायरपारगे वारसंगसुदणिउणे । बारस विहतवणिरदे तेरस किरियादरे वंदे ||८|| टीका --- एयार संगेत्यादि - एकादश च तान्यंगानि च तान्येव श्रुतसागरस्तस्य पारं तीरं परिसमाप्तिं गताः प्राप्तास्तान्वंदे | बारसंग • सुदरिण उणे - द्वादश अंगानि यस्य तच्च तच्छ्रुतं च तत्र निपुणान् दत्तान् । बारसविहतवणिरदे -- अनशनावमोदर्यादिकं षड्विधं बाह्य तपः प्रायश्चित्तविनयादिकं च षड्विधं अन्तरंगमिति द्वादशविधं तपः तत्र निरतानासक्तान् । तेरस किरियादरे - तिस्रो गुप्तयः पंच समितयः पंच महाव्रतानीति त्रयोदशविधं चारित्रं च त्रयोदश क्रियाः अथवो आवश्यकः षट् पंच नमस्काराः असहिका निषेधिका चेति त्रयोदशक्रियासासु आदरस्तात्पर्यं येषां तान्वंदे ॥ ८ ॥ भूदेसु दयावण्णे चउदस चउदससुगंथपरिसुद्धे । चउदस पुत्रपगमे चउदसमलव निदे वंदे ||९|| Ant For Private And Personal Use Only टीका - भूदेखित्यादि । भूतेषु जीवेषु दयामापन्नाः प्राप्तास्तान्वंदे | किपत्सु ? चउदससु - एकेन्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तभेदाचत्वारः, द्वित्रिचतुरिंद्रियाः पर्याप्तापर्याप्तभेदात्षटू, पंचेन्द्रियाः संज्ञय संज्ञिपर्याप्ता
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy