SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगिभक्तिः १६ अकस्माद्भयं, इति । उक्तं च-"इहपरलोयत्ताणं अगुत्तिमरणं च वेयणाकस्सं भयमिति" तैर्विप्रमुक्तान् । सत्ताणऽभयंकरे-सत्त्वानां प्राणिनां अभयंकरान्वंदे ॥१॥ णमयहाणे पण कम्महणहसंसारे। परमहणिहियहे अटगुड्ढीसरे वंदे ॥६॥ टीका--णटुट्ठ त्यादि-नष्टान्यष्टौ जातिकुलबलैश्वर्यरूपतपोज्ञानशिल्पकर्मलक्षणानि मदस्थानानि येषां तान् । पणटुकम्मटुणटुसंसारेप्रकर्षण नष्टानि कर्माणि अष्टौ येषां ते च ते नष्टसंसाराश्च नष्टः संसारो येषां तान् । परमणिट्ठिय?-परम उत्कृष्टः स चासौ अर्थश्च मोक्षस्तस्य निष्ठितं निष्पत्तिस्तदेव अर्थः प्रयोजनं येषां तान् । अट्ठगुणड्ढीसरे-अष्टौ गुणः भेदाः यस्याः सा चासौ ऋद्धिश्च तस्यास्तया वा ईश्वरान्स्वामिनः । अष्टौ गुणाः अणिमामहिमालघिमाप्राप्तिप्रागाम्येशित्ववशित्वका. मरूपित्वलक्षणाः।१-अणोः कायस्य करणं अणिमा । २-महिमा महतः कायस्य करणं । ३-लघिमा यल्लघुत्वाद्वायुवत्सर्वत्र संचरति । ४प्राप्तिर्यचन्मनसा चिंतयति तत्तत्प्राप्नोति, भुवि स्थितस्यांगुल्यादिना मेरुशिखरादिप्रापणशक्तिर्वा प्राप्तिः । ५-~भूमाविव जलादौ सर्वत्राप्रतिहतगमनं प्रागम्यं । न सर्वत्र गमनं अगमः प्रगतोऽगमो यस्मात्, प्रकृष्टो वा आ समंताद्गमो यस्मादसौ प्रागमस्तस्य भावः प्रागम्यं । ६-ईशित्वं त्रैलोक्यप्रभुत्वं । ७-वशित्वं सर्वजीववशीकरणं । ८-क्रमेण युगपद्वानेकाभिलषितरूपधारित्वं कामरूपित्वं ॥६॥ णवबंभचेरगुत्ते णवणयसब्भावजाणगे वंदे । दहविहधम्महाई दससंजमसंजदे वंदे ।'७॥ टीका-नवर्बभेत्यादि । नव च तानि ब्रह्मचर्याणि तानि गुप्तानि रक्षितानि यैस्तान्वंदे । मैथुनविषये प्रत्येकं मनोवाक्कायैः कृतकारिता For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy