________________
Shri Mahavir Jain Aradhana Kendra
१६५
www
www.kobatirth.org
किया-कलापे
Acharya Shri Kailassagarsuri Gyanmandir
निष्ठुरतया परपीडाकारिणः त्रयोऽशुभमनोवाक्कायाः तेभ्यो विरतान्नमस्यामि । तिसल्ल परिसुद्धे - शल्यं शरीरांतर्गतं वारणादिकं तद्यथा बाधाकरं तथा शारीरमानसदुःखहेतुत्वान्मायामिथ्यात्वनिदानानि शल्यामीत्युच्यते तैः त्रिभिः परि समन्तात् शुद्धान् रहितान् । तिरिणयगारवरहिए -- शब्दर्द्धिरसस्वा दलक्षणैस्त्रिभिरपि गारवै रहितान् । तियरणसुद्धे --- त्रिभिः करणैर्मनोव क्कायव्यापारः शुद्धान्निर्मलान्नमस्यामि ॥ ३ ॥
चविसायहणे चउगहसंसारगमण भयभीए । पंचासवपडिगिरदे पंचिदियणिज्जिदे वंदे ॥ ४ ॥
^^^^^^^^^^
टीका -- चउव्वित्यादि - यथा हरीतक्यादिकषायो रंगश्लेषहेतुस्तथा कर्मश्लेषहेतुत्वात्कषायाः क्रोधमानमायालोभाश्चतुर्विधाश्च ते कषायास्तेषां मथनास्तान्वंदे | चउगइसंसारगमण भयभीए - चतस्रो नरकतिर्यङ्म नुष्यदेवयोनिप्रापिका गतयो यस्मिन्स चासौ संसारच तस्मिन् गमनं पर्यटनं तस्माद्भयभीतान्भयत्रस्तान् । पंचासव पडिविरदे - पंचास्रवा मिथ्यात्वाविरतिप्रमादकषाययोगलक्षणाः कर्मास्रवहेतुत्वात्तेभ्यः प्रतिविरतान् । पंचिदियणिज्जिदे - पंचेंद्रियाणि निर्जितानि यैस्तान्वंदे ॥ ४ ॥
छज्जीवदयावण्णे छडायदयणविवज्जिदे समिदभावे । सत्तभयविध्यमुक्के सत्ता भयंकरे वंदे ॥५॥
For Private And Personal Use Only
टीका - छज्जीवदयावरणे इत्यादि । पट् च ते जीवाश्च पंचस्थावसाश्चेति तेषु दया करुरणा तामापन्नाः प्राप्तास्तान्वंदे । छडायदणविवज्जिदे - षट् च तानि आयतनानि च छडायदा|णि अंतित्यस्य लोपं कृत्वा निर्देशः कृतः तैर्मिथ्यादर्शनादित्रय तदाधारपुरुपत्रयरूपैर्विवर्जितान् । समिदभावे - शमिता उपशमं नीता भावाः क्रोधादिपरिणामाः यैः समितिषु भावो येषां इत्यर्थस्तान् । सत्तभयविप्पमुक्के - सप्तभयानि इहलोकभयं परलोकभयं, अत्राणभयं, अगुप्तिभयं मरणभयं, वेदनाभयं
"