SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारित्रमाक्तिः। तहाखादं तु पुणो-तथाख्यातमपि तत्पुनरुच्यते । तथा तेन निरव. शेषमोहोपशमक्षयप्रकारेण प्राप्यते इत्याख्यातं तथाख्यातम् । किवा पंचहाचारं मंगलं मलसोहणं-इमं पंचधाचारं अहं तदनुष्ठाता कर्ममल. शोधनस्वभावमंगलभूतं किच्चा-कृत्वा अनुष्ठाय लभे, मुत्तिज सुहमित्या भिसम्बन्धः । अर्थवशाद्विभक्तिपरिणाम इति वचनाल्लमते इत्येतस्यास्मत्संज्ञकैकवचनांतस्य अहमित्यनेनाभिसम्बन्धात् ।। ३-४ ।। अहिंसादीणि उत्ताणि महव्वयाणि पंच य । समिदीओ तदो पंच पंचइंदियणिग्गहो ॥५॥ छव्मेयावास भूसिज्जा अण्हाणत्तमचेलदा । लोयत्तं ठिदिभुत्तिं च अदंतधावणमेव य ॥ ६ ॥ एयभत्तेण संजुत्ता रिसिमूलगुणा तहा। दसधम्मा तिगुत्तीओ सीलाणि सयलाणि च ॥ ७॥ सम्वेवि य परीसहा उत्तुत्तरगुणा तहा। अण्णे वि भासिया संता तेसिं हाणि मए कया ॥८॥ टीका-अहिंसादीणीत्यादि । अहिंसादीणि उत्तानि-अहिंसादीनि उक्तानि घातिकर्मविनाशिना । महव्वयाणि-महानतानि, पंच यपंच च, समिदीओ समितयः । तदो-ततः पंचमहाव्रतेभ्यः पृथगुक्तास्तेनैव ये चैते पंचमहानतादयः प्रत्येकमुक्ताः ते एकभक्तेन संयुक्ता ऋषिमूलगुणा अष्टाविंशतिरुक्ताः तेनैव भगवता । तांश्च तहा-तेनैव प्रकारेण मंगलं मल. शोधनं कृत्वा । दसधम्मेत्यादि-ये दशधर्मत्रिगुप्तिसकलशीलसर्वपरीषहो उक्ताः भगवता । उत्तुत्तरगुणा-उक्ता उत्तरगुणा ये आतापनादयः तांश्च तह--यथा चारित्रादींस्तथा तेनैव प्रकारेणैव मंगलं कृत्वा । न केवलमेते पंचापि तु अण्णेवि-अन्ये अपि बाह्याभ्यंतरतपोविशेषंद्रियप्राणसंयमादयो भासिया-घातिकर्मविनाशिना भगवता भाषिताः। संता--संतः प्रशस्तास्तांश्च सर्वान्मंगलं मलशोधनं कृत्वा सम्यगनुष्ठायाहं लभे, मुक्तिनं सुखमिति संबंधः । तद्नुष्ठाने प्रवृत्तेन च यदि कदाचित् तेसिं-तेषां For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy