SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar क्रिया-कलापेamanan पूज्य स चासौ वीरश्चेति । पुनरपि किंविशिष्टं ? सव्ववेदिणं-सर्वज्ञं । धादिकम्मेत्यादि । तं बंदित्वा । भासियं-प्रतिपादितं । किं तच्चारित्तं चारित्रं । कथं ? पंचभेददो--पंचभेदानाश्रित्य । केन ? घादिकम्मविणासिणा-देशतो घातिकर्माणि विनाशितवान् , विनाशयतीति वा, साकल्येन विनाशयिष्यतीति वा एवंशीलो घातिकर्मविनाशी गौतमस्वामी तेन । केषां ? भन्वजीवाणं- भव्यजीवानां । किमर्थ ? धादि. कामविघाइत्थं-घातीनि च तानि कर्माणि च ज्ञानावरणादीनि तेषां विघातार्थ विनाशार्थ ॥१२॥ तानेव. पंचचारित्रभेदान् दर्शयितुं आह सामाइयमित्याह-- सामाइयं तु चारित्तं छेदोवट्ठावणं तहा । तं परिहारविसुद्धिं च संजमं सुहमं पुणो ॥३॥ जहाखादं तु चारित्त तहाखादं तु तं पुणो। किचाहं पंचहाचारं मंगलं मलसोहणं ॥४॥ टीका-तुशब्दस्तावदर्थे । सामोइयं-सामायिक सर्वसावध विरतिलक्षणं तावच्चारित्रं भाषितं तेन भगवताभव्यजीवानाम् । समित्येकत्वेन औदासीन्यपरिणामलक्षणेन अयनं गमनं स्थानं इत्यर्थः, यथा नयनगतं नयनस्थितं कज्जलं इति, समयः स एव प्रयोजनमस्येति सामायिकं । छेदोवदावणं-छेदेन व्रतभेदेन पक्षमासादिप्रव्रज्याहापनेन वा उपस्थापना पुनर्वतारोपणं यत्र चारित्रे तच्छेदोपस्थापनं । तहा-तेनैव प्रकारेण भाषितं । तं-तत् । परिहारविसुद्धिं च-परिहारः प्रणिवधाभिवृत्तिः तेन विशिष्टा शुद्धिर्यत्र तत्पहिरविशुद्धिसंयमं चारित्रं । संजमं मुहम-अतिसूक्ष्मकषायत्वात्सूक्ष्मसांपरायचारित्रं । पुण-पुनः परिहारशुद्धयनंतर भाषितं । जहाखादमित्यादि--मोहनीयस्य निरवशेषस्योपशमात्क्षयाच्च यथावस्थितात्मस्वभावं यथाख्यातं तु पुनः चारित्रं । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy