SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ चारित्रभक्तिः। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सुमतयः-शोभना मतिर्येषां ते सुमतयः । पुनरपि किंविशिष्टाः ? शांतैनसः शांतं उपशमं नीतं एनः पापं यैस्ते शांतैनसः । पुनरपि कथंभूताः ? उद्यमिन:-तेजस्विनो वा । एवंविधा ये प्राणिनः-प्राणिनः इति सामान्यवचनेऽपि भव्या एव गृह्यन्ते अन्येषामेवंविधविशेषणविशिष्टत्वानुपपत्तेः । ते आरोहंतु । किं तच्चरित्रं । किंविशिष्टं ? उत्तमं उत्कृष्टं । इदं उक्तप्रकारं । जैनेन्द्रं-जिनेन्द्राणामिदं जैनेन्द्रं । पुनरपि किंविशिष्ट तदित्याह मोक्षस्येत्यादि । इवशब्दः सोपानमित्यस्यानंतरं द्रष्टव्यः सोपानमिव कृतं । तत्कस्य ? मोक्षस्य । किंविशिष्टं सोपानं ? विशालं विस्तीर्णं । न केवलं विशालमेव किंतु उच्चस्तरी--अतिशयेन उच्चं । पुनरपि कथंभूतं ? अतुलं -न विद्यते तुला उपमा यस्य तदतुलं ॥ १० ॥ प्राकृत चारित्रभक्तिः। तिलोए सबजीवाणं हिदं धम्मोत्रदेसिणं । वड्ढमाणं महावीरं वंदित्ता सव्ववेदिणं ।। १॥ पादिकम्मविघादत्थं घादिकम्मविणासिणा । भासियं भन्यजीवाणं चारित्तं पंचमेददो ॥२॥ टीका-तिलोयत्यादि । नंदित्ता-दित्वा । कं ? वड्डमाणं-अतिमतीर्थकरदेवं । किंविशिष्टं ? हिदं-हितं । केषां ? तिलोए सव्वजीवाणं-नौलोक्यसर्वजीवानां। कथमसौ तेषां हितमित्याह धम्मोवदेसिणंहितं सुखं तद्धतुश्च धर्मश्चारित्रलक्षणः उत्तमक्षमादिलक्षणश्च तं तेषामुपदिशन भगवान् हित इत्युच्यते । पुनरपि कथम्भूतं ? महावीरं । विशिष्टां इद्राद्यसंभविनी ई लक्ष्मों रातीति वीरो महान् इंद्रादीनां २५ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy