SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६२ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir अन्यथा- प्रवचनोक्तप्रकारलंघनेन । तस्मिन्नन्यथा वर्तने । यदर्जितं - उपा र्जितं । एनः पापम् । तदस्यति - प्रतिक्षिपति । कस्मिन् ? वृत्ते - चरित्रे । प्रतिनवं च - अभिनवं चैनो निराकुर्वति । पुनरपि किं कुर्वति ? नयतिप्रापयति । कां ? ऋद्धिं । केषां ? सुतपसां । कतिप्रकारां ? सप्ततयीम् - 1 "बुद्धितवोचिय लद्धो विकुब्वणलद्धी तहेव श्रसहिश्रा । रसबलक्खीणाविय लद्धीश्री सत्त परणत्ता ॥ १ ॥” इति । किंविशिष्टां ? अद्भुत आश्चर्यवतीं । कं नयति १ निधिं सुतपसां इत्येतत्संदंशकन्यायेन निधौ ऋद्धौ च संबध्यते । निधीयंते शोभनानि तपांसि यस्मिन्नसौ निधिः परममुनिस्तं । ननु कथमेका क्रिया कर्मद्वये संबध्यते इति चेत् नयतेर्द्विकर्मकत्वाद्यथा अर्जा नयति प्रा. ममिति । इत्थंभूते वृत्ते यदुष्कृतं दुष्टमनुष्ठितं । गुरु महत्पापं उपार्जितं । कथंभूर्त १ निंदितं - गर्हितं । तन्मिथ्या भवतु विफलं संपद्यताम । मे मम । कीदृशस्य ? स्वं निंदतः - आत्मानं जुगुप्समानस्य ॥ १ ॥ 1 संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चैस्तरा मारोहन्तु चरित्रमुत्तममिदं जैनेन्द्र मोजस्विनः ॥ १० ॥ टीका -- संसारेत्यादि । संसारे व्यसनं दुःखं तेनातिरभिघातस्तया - प्रचलिताः प्रकंपिताः । पुनरपि किंविशिष्टाः ? नित्योदय प्रार्थिनः - - नित्यश्चासौ उदयश्च मोक्षलक्ष्मीः निर्त्य वा सर्वकालं उदर्य उत्तरोत्तरा वृद्धिस्तं प्रार्थयते इत्येवंशीलाः । पुनरपि कथंभूताः ? प्रत्यासन्नविमुक्तय:-- प्रत्यासन्ना निकटीभूता विमुक्तिर्मोक्षो येषां ते तथोक्ताः । पुनरपि कीदृशाः ? For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy