SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारित्रभक्तिः। आत्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वीसनी मिच्छन्केवलदर्शनावगमनप्राज्यप्रकाशोज्ज्वलाम् ।।८।। टीका-आचारं वंदे । कथंभूतं ? सहपंचभेदं--सह पंचभिर्भेदैर्तत इति सहस्य सादेशो विकल्पेन भवत्यतोत्र स्वरूपेणावस्थानं । यथा च तत्पंचभेदं भवति तथा उदितं-निगदितं । पुनरपि कथंभूतं ? तीर्थं भवोदधिं भव्यास्तरंत्यनेनेति तीर्थं । पुनरपि कीदृशं ? परमुत्कृष्टं । मंगल-मलं पापं गालयति विनाशयति इति मंगलं, मंगं पुण्यं लाति आदत्त इति वा मंगलं । न केवलं तमेव गंदे अपि तु यतीनपि । अपिशब्दो भिन्नप्रक्रमो दृष्टव्यः । कथंभूतान् यतीन् ? निग्रंथान् प्रथान्निष्क्रांता निरस्तो वा ग्रंथो यैस्ते वा निग्रंथाः तान् । अनेन श्वेतपटादीना अवंद्यता कथिता । पुनरपि कथंभूतान ? सच्चरित्रमहतः--सच्चरित्राश्च ते महान्तश्च सच्चरित्रेण वा महांतस्तान्ांदे । कति ? समग्रान्सकलान् । किंकुर्वन् ? इच्छन् । कां ? लक्ष्मी । किंविशिष्टां ? अविध्ठांसिनी-अविनश्वरी मोक्षलक्ष्मीमित्यर्थः । तस्या एवाविनश्वरत्वसंभवात् । पुनरपि कथंभूतां ? अात्माधीनसुखो. दयां-आत्मन एव न विषयाणां आधीनं यत्सुखं अनंतसुखमित्यर्थः तस्योदय उत्पादो यस्यां । पुनरपि किंशिविष्टां इत्याह दर्शनेत्यादि---दर्शनं च केवलदर्शनं अवगमनं केवलज्ञानं ते एव तयोर्वा प्राज्यः प्रचुरतरः प्रकाशः तेन उज्ज्वला दीप्रा यत एव च उक्तविशेषणविशिष्टासौ तत एवानुपमा न विद्यते उपमा सादृश्यं इति अनुपमा ताम् ।।८।। अज्ञानाद्यदवीवृतं नियमिनोऽवनिष्यहं चान्यथा तस्मिन्नर्जितमस्यति प्रतिनवं चैनो निराकुर्वति । वृत्ते सप्ततयी निधिं सुतपसामृद्धि नयत्यद्भुतं तन्मिथ्या गुरु दुष्कृतं भवतु मे स्वं निंदतो निंदितम् ॥९॥ टीका-अज्ञानादित्यादि । अज्ञानाद्-व्यामोहात् । यदवीवृतंवर्तितवान् । कान ? नियमिनो-यतीन् । अवर्तिषि-वृत्तिवानहं च । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy