SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० क्रिया-कलापेwmmmmmmmmmmmmmmmmmmmm.. तिस्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदया: पंचेयादिसमाश्रयाः समितयः पंचव्रतानीत्यपि । चारित्रोपहितं त्रयोदशतयं पूर्व न दृष्टं परै-- राचारं परमेष्ठिनो जिनपतेवीरं नमामो वयम् ॥ ७॥ टीका-तिस्र इत्यादि । तिस्रः । काः ? सत्तमगुप्तयः सत्तमाः शोभनाश्च ता गुप्तयश्च । कीदृश्यः ? तनुमनोभाषानिमित्तोदयाः-तनुश्च मनश्च भाषा च ता एव निमित्तं तस्मादुदयो यासां तास्तथोक्ताः। पंचेर्यादिसमाश्रयाः समितयः-ईर्या आदिर्यस्यासावीर्यादिः समीचीनः आश्रयः आधारः समाश्रयः ईर्यादिः समाश्रयो यासां तास्तथोक्ताः समितयः । कति ? पंच 'इर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः' इत्यभिधानात् । पंचव्रतानीत्यपि-पंचव्रतानि हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिलक्षणानि इत्यपि-एतान्यपि मिलितानि चारित्रं संभवति । तेन चारित्रेणोपहितं युक्तं चारित्राचारमित्यर्थः । किंविशिष्ट'? त्रयोदशतयं-उक्तत्रयोदशप्रकारं । पुनरपि कथंभूतं ? न दृष्टं । कदा ? पूर्वं । कैः ? परैः-अन्यतीर्थकरैः। कस्मात्परैर्वीरादन्त्यतीर्थकरात् । किंविशिष्टात् ? जिनपतेः जिनश्वासौ पतिश्च जिनानां वा पतिर्जिनपतिस्तस्मात् । पुनरपि किंविशिष्टात् ? परमेष्ठिनः-परमे अचिन्त्ये विभूतियुक्त पदे संतिष्ठमानात्। परैरजितादिभिर्जिननाथै स्त्रयोदशभेदभिन्न चारित्रं न कथितं सर्नसावद्यविरतिलक्षणमेक चारित्रं तैर्विनिर्दिष्ट तत्कालीनशिष्याणां ऋजुजडमतित्वासंभवात् । वर्द्धमानस्वमिना तु जडमनिभव्याशयवशादादिदेवेन तु ऋजुमतिविनेयवशात्त्रयोदशविधं निर्दिष्टमाचारं नमामो वयम् ॥७॥ यः प्रत्येकं ज्ञानाचारादिभेदेन प्रतिपादित श्राचारस्तं समुदायीकृत्य स्तोतुकामस्तदाधारांश्च यतीनाचारमित्याद्याह-- आचारं सहपंचभेदमुदितं तीर्थं परं मंगलं निग्रंथानपि सच्चरित्रमहतो वंदे समग्रान्यतीन् । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy