SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चारित्रभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir १८६ यावी 'श्रमयादीनां चेति' वक्तव्येन श्रमयशब्दाद्विन् भवति अकारस्य दीर्घत्वं च । व्याधिते गुरौ आचार्ये । वृद्ध े च जरापरीततनौ । बाले शिशौ यतौ । कायोत्सर्जनसत्क्रिया कायस्योत्सर्जनं त्यजनं तदेव सत्क्रिया विनयो नम्रता । इत्येवं तपः षड्विधं - - षड्भेदं । गंदे | अभ्यन्तरं - अन्तरंगं । कथंभूतं ? तदित्याह अन्तरंगेत्यादि - अन्तः अंगं स्वरूपं येषां ते । अन्तरंगाश्च ते बलवन्तश्च ते विद्वेषिणश्च क्रोधादिशत्रवः तेषां विशेषेण निर्मू लोन्मूलन लक्षणेन ध्वंसनं निराकरणं यस्मात् ॥ ५ ॥ सम्यग्ज्ञानविलोचनस्य दधतः श्रद्धानमन्मते For Private And Personal Use Only वीर्यस्याविनिगूहनेन तपसि स्वस्य प्रयत्नाद्यतेः । या वृत्तिस्तरणी नौरविवरा लध्वी भवोदन्यतो वीर्याचारमहंतमूर्जितगुणं वंदे सतामर्चितम् ॥ ६ ॥ टीका - सम्यग्ज्ञानेत्यादि । सम्यग्ज्ञानं यथावस्थितवस्तुग्राहि ज्ञानं तदेव विशिष्टे लोचने चक्षुषी यस्य स तथोक्तस्तस्य । किं कुर्वतः ? दधतः । किं तत् ? श्रद्धानं-रुचिं । क्व ? अर्हन्मते - अर्हतो मतं शासनं तस्मिन् । कस्य ? यतेः सम्यग्दर्शनज्ञानवतो मुनेरित्यर्थः । तस्य वीर्यस्य -- सामर्थ्यस्य वि निगूहनेन – प्रच्छादनेन । किंविशिष्टस्य वीर्यस्य ? स्वस्य - श्रात्मीयस्य । या वृत्तिः । क १ तपसि - पूर्वोक्त द्वादशविधे । कस्मात् ? प्रयत्नात् महादरात् । किंविशिष्टा ? तरणी । कस्य भवोदन्वतो भवसमुद्रस्य । पुनरपि कथंभूता सा ? विवरा न विद्यते विवरं छिद्र यस्या यस्यां वा सा विवरा निरतिचारा इत्यर्थः । पुनरपि कथंभूता ? लध्वी स्तोका संसारसमुद्रपारप्रापणीत्यर्थः । केव ? नौरिव यथा नौरविवरा लध्वी चोदधेस्तरणी भवति तथा यतेर्वृत्तिस्तथाविधा भवोदधेस्तरणी भवति । एवंविधं वीर्याचारं वंदे | वीर्यस्य शक्तेराचरणं अनुष्ठानं तपोविधानद्वारेण । कथंभूतं ? ऊर्जितगुणं ऊर्जिता कर्मनिर्मूलने दुर्धरतपोविधाने च बलवन्तो गुणा यस्य यस्मिन्वा स ऊर्जितगुणः तं । पुनरपि कीदृशं ? सतामर्चितं - सद्भिर्गणधरदेवादिभिरर्चितं पूजितमित्यर्थः ||६||
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy