SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किया-कलापे अनुष्ठितं । कथं वंदे ? मूर्ना-मस्तकेन । नमन्-प्रणमन् श्रादरात्महाप्रयत्नात् ॥३॥ एकान्ते शयनोपवेशनकृतिः संतापनं तानगं संख्यावृत्तिनिवन्धनामनशनं विष्वाणमोदरम्। त्य गं चेन्द्रियदन्तिनो मदयतः स्वादो रसस्यानिशं पोढा बाह्यमहं स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः ॥४॥ टीका-एकान्तेत्यादि । एकान्ते-स्त्रीपशुपंडुविवर्जितप्रदेशे शयनं चोपवेशनं च तयोः कृतिः करणं । संतापनं-क्लेशनं कथम्भूतं ? तानवं-तनौ भवं तानवं । संख्यां गणनां वृत्तिनिबन्धनां-वृत्तेर्तनस्य निबन्धसं हेतुभूतां । अनशनं उपवासं । विष्वाणं-भोजनं । कीदृशं ? अझैदरं-अोदरप्रमाणं अवमोदर्यमित्यर्थः । त्यागं च-वर्जनं । कथं ? अनिशं सर्वदा । कस्य ? रसस्य । कथंभूतस्य ? स्वादोः-सुस्वादस्य वृष्यस्य--वा । पुनरपि किं कुर्वतः ? मदयतः-दर्पयतः । कान् ? इंद्रियदन्तिनः-इन्द्रियाण्येव दन्तिनः दुद्धरत्वात् । षोढा--षट्प्रकारं । बाह्यबहिरंगं बाह्यन्द्रियग्राह्यत्वादेव । तत्तपः स्तुवे-दे । किविशिष्टं ? शिवतिप्राप्त्यभ्युपायं-शिवस्य निर्वाणस्य गतिर्मार्गः तस्याः प्राप्तिः लाभः तस्या अभ्युपायः कारणं ॥४॥ स्वाध्यायः शुभकर्मणश्च्युतवतः संप्रत्यवस्थापन ध्यानं व्यापृतिरामयाविनि गुरौ वृद्धे च बाले यतौ। कायोत्सर्जनसक्रिया विनय इत्येवं तपः षड्विधं नंदेऽभ्यंतरमन्तरंगबलवद्विद्वेषिविध्वंसनम् ॥ ५॥ टीका-स्वाध्यायेत्यादि । शोभनो लाभपूजाख्यातिनिरपेक्षतया आध्यायः पाठः स्वाध्यायः । शुभं प्रशस्तं कर्म अनुष्ठानं तस्माच्च्युतवतः तत्परित्यक्तवतः संप्रत्यवस्थापन सम्यक्पुनः स्वस्थापनं चिरंतनभावेष्वारोपणं प्रायश्चित्तमित्यर्थः । ध्यानमेकाग्रचिन्तानिरोधः । व्यापृतिः कायादिव्यापारः । क ? श्रामयाविनि श्रामयो व्याधिरस्यास्तीति श्राम For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy