________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
चारित्रभक्ति। mmmmmmmmwwwwwwwwwwwwwwwwwmmmmmmm
टीका-श्रर्थो वाच्यः, व्यंजनं वाचकः शब्दः तयोर्द्वयं च तैरविकलता परिपूर्णता, कालः पूर्वाह्लादिसंध्यादिविविक्तः, उपधा अवग्रहविशेषः, प्रश्रयो विनयः । स्वस्थाचार्यः पंचाचारप्रणेता आदिशब्देन उपाध्यायादिपरिग्रहः तेषामनपह्नवोऽनिह्नवः । बहुमतिश्च बहुपूजा च इत्येवमष्टधा अष्टप्रकारं । व्याहृतं-प्रोक्तं । केन ? भगवता । किं विशिष्टेनेत्याह श्रीमदित्यादि-श्रीरनयोरस्तीति श्रीमती ते च ते जातिकुले च जातिर्मातृपक्षः कुलं पितृपक्षः तयोरिंदुश्चन्द्र उद्योतक इत्यर्थः । पुनरपि क्रीडशेन ? तीर्थस्य कर्ता-तीर्थस्य धर्मस्य श्रुतस्य वा कर्जा प्रणेत्रा। अंजसा-परमार्थेन । ज्ञानाचारमहं त्रिधा मनोवाकायैः प्रणिपतामिनमस्करोमि । किमर्थमित्याह उद्ध तये--प्रक्षयाय । केषां ? कर्मणाम् ॥२॥
इदानी दर्शनाचारं निगदन् शंकेत्याहशंकादृष्टिविमोहकांक्षण विधिव्यावृत्तिसन्नद्धता
वात्सल्यं विचिकित्सनादुपरति धर्मोपबृंहक्रियाम् । शक्त्या शासनदीपनं हितपथाद्धष्टस्य संस्थापनं नंदे दर्शनगोचरं सुचरितं मूर्ना नमन्नादरात् ॥ ३॥
टीका-शंका संदेहःसर्वज्ञस्तत्प्रतिपादिताश्चार्थाःसन्ति न सन्तीति वा । दृष्टिः तत्त्वार्थे श्रद्धानं तस्या विमोहो अन्यदृष्टिप्रशंसालक्षणः ।कांक्षाएं कांक्षा भाविभोगाभिलाष इति यावत् । शंका च दृष्टिविमोहश्च कांक्षणं च तेषां विधिः करणं तस्य व्यावृत्तिः निवृत्तिः तस्यां सन्नद्धता तत्परता तां । वात्सल्यं--सधर्मणि स्नेहः । विचिकित्सनं--जुगुप्सनं तस्मादुपरतिव्यावृत्तिं । धर्मस्य उत्तमक्षमादिलक्षणस्य उपबृहः उपवृहणं तस्य क्रिया करणं धर्मानुष्ठातणां दोषप्रच्छादनेन धर्मप्रवर्द्धनमित्यर्थः तां । शक्त्या सामर्थ्येन शासनस्य जैनमतस्य दीपनं तपःप्रभृतिभिः प्रकाशनम् । द्वितपथाद्रत्नत्रयाद्दष्टस्य प्रच्युतस्य संस्थापनं हेतुनयदृष्टान्तैः स्थिरीकरणं। दुर्शनगोचरं--दर्शनगोचरो विषयो यस्य आचरस्य तं वंदे । कथम्भूतं ? मुचरितं शोभनं चरितं अनुष्ठानं यस्य शौभनैर्वा गणधरदेवादिभिः चरितं
For Private And Personal Use Only